TBD.
श्यायतेः उत्तरस्य निष्थातकारस्य अस्पर्शे नकारः आदेशो भवति। शीनं घृतम्। शीनं मेदः। शीना वसा। अस्पर्शे इति किम्? शीतं वर्तते। शीतो वायुः। शीतम् उदकम् इत्यत्र गुणभूतो ऽपि स्पर्शः नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति। गुणे च स्पर्शे प्रतिषेधो ऽयम्, न रोगे, तेन प्रतिषीनः इत्यत्र नत्वं भव्त्येव।
TBD.
–
830 श्योऽस्पर्शे। श्यः- अस्पर्शे इति छेदः। दीर्घ इति। नत्वात्प्रागेव `हल' इति दीर्घ इत्युचितम्, नत्वस्य त्रैपादिकत्वात्। शीनं घृतमिति। घनीभूतमित्यर्थः। धातूनामनेकार्थत्वात्। यद्यपि घृतेऽप्यनुष्णस्पर्शोऽस्त्येव, तथापि शीताख्यस्पर्शविशेष एव विवक्षित इति भावः। अस्पर्शे किमिति। श्यैङो निष्ठातस्य नत्वं स्यादित्येतावदेवास्त्वित्यर्थः। शीतं जलमिति। शीतस्पर्शवदित्यर्थः। अत्र `द्रवमूर्ती'ति संप्रसारणमेव न तु निष्ठानत्वमित्यर्थः। एवं च `द्रवमूर्तिस्पर्शयो'रित्स्य स्पर्शे इदमुदाहरणम्। `श्योऽस्पर्शे' इत्यस्य तु प्रत्युदाहरणमिति बोध्यम्। सूत्रयोः स्पर्शशब्दः प्रधानभूते गुणभूते च वर्तते। तत्र गुणभूते विशेष्यनिघ्नः। शीता आपः, शीतं जलमित्यादि। यदा तु स्पर्सविशेषो गुणः प्राधान्येन विवक्षितस्तदा क्लीबत्वमेव। `शीतं गुणे'इत्यमरः। #एसंप्रसारणविधौ पृच्छति– द्रमूर्तिस्पर्शयोः किमिति। संश्यान इति। अत्र स्पर्शस्याऽप्रतीतेर्न संप्रसारणम्। नत्वं तु भवत्येवेति भावः।
682 संश्यान इति। श्यैङ् गतावित्यस्य `आदेच' इत्यात्वे `संयोगादेरातः' इति निष्ठातस्य नः।
TBD.