Table of Contents

<<6-1-21 —- 6-1-23>>

6-1-22 स्फायः स्फी निष्ठायाम्

प्रथमावृत्तिः

TBD.

काशिका

स्फायी ओप्यायी वृद्धौ इत्यसय् धातोः निष्ठायां परतः स्फी इत्ययम् आदेशो भवति। स्फीतः। स्फीतवान्। निष्थायाम् इति किम्? शातिः। स्फातीभवति इत्येतदपि क्तिन्नन्तस्य एव रूपं, न निष्थान्तस्य। निष्ठायाम् इत्येतदधीक्रीयते लिङ्यङोश्च 6-1-29 इति प्रागेतस्मात् सूत्रात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

851 स्फायः स्फी। `स्फायी वृद्धौ' अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः।

तत्त्वबोधिनी

697 स्फायः स्फी। स्फायी वृद्धौ। कथं तर्हि स्फीतिकाम इति ?। स्फीतमाष्टे इति ण्यन्तादच इः, अल्लोपणिलोपौ।

Satishji's सूत्र-सूचिः

TBD.