Table of Contents

<<6-1-17 —- 6-1-19>>

6-1-18 स्वापेश् चङि

प्रथमावृत्तिः

TBD.

काशिका

स्वापेः इति स्वपेर् ण्यन्तस्य ग्रहणम्। तस्य चङि परतः संप्रसारणम् भवति। असूषुपत्, असूषुपताम्, असूषुपन्। द्विर्वचनात् पूर्वम् अत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधायाः ह्रस्वत्वम्, ततो द्विर्वचनम्, दीर्घो लघोः 7-4-94 इति दीर्घत्वम्। चङि इति किम्? स्वाप्यते। स्वापितः। किति इति निवृत्तम्। ङिति इति केवलम् इह अनुवर्तते इत्येतद् दुर्विज्ञानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

412 स्वापेश्चङि। संप्रसारणमिति। `ष्यङः संप्रसारण'मित्यतस्तदनुवृत्तेरिति भावः। असू षुपदिति। संप्रसारणं तदाश्रयं चकार्यं बलव'दिति वचनात्कृते संप्रासरणेद्वित्वं पूर्वरूपं सन्वत्तवदीर्घौ षत्वमिति भावः।

तत्त्वबोधिनी

360 स्वापेश्चङि। चङि किम् ?। स्वापयति। असूषुपदिति। इह संप्रसारणोत्तरं द्वित्वम्।

Satishji's सूत्र-सूचिः

TBD.