TBD.
उच्छ इत्येवम् आदीनाम् अन्त उदात्तो भवति। उञ्छः, म्लेच्छः, जञ्जः, जल्पः एते घञन्ताः इति ञित्स्वरः प्राप्तः। जपः, व्यधः इत्यबन्तौ, तयोर् धातुस्वरः प्राप्तः। केचित् तु वधः इति पठन्ति। युगः। युजेर् घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनम् इदम् इष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगः अन्यत्र हि योगः एव भवति। गरो दूष्ये ऽबन्तः। गरशब्दो ऽबन्तः, स दूष्य एव अन्तोदात्तः। गरो विषम्। अन्यत्राद्युदात्त एव। वेदवेगवेष्टबन्धाः करणो। हलश्च 3-3-121 इति घञन्ता एते करणो ऽन्तोदात्ता भवन्ति। भावे आद्युदात्ता एव। स्तुयुद्रुवश्छन्दसि। उपसमस्तार्थम् एतत्। परिष्टुत्। संयुत्। परिद्रुत्। वर्तनिः स्तोत्रे। स्तोत्रं साम। तत्स्थो वर्तनिशब्दो ऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः। श्वभ्रे दरः। श्वभ्रे ऽभिधेये दरशब्दो ऽन्तोदत्तः, अन्यत्राबन्तत्वादाद्युदात्तः। साम्बतापौ भावगर्हायाम्। अन्तोदातौ अन्यत्राद्युदात्तौ। उत्तमशश्वत्तमौ सर्वत्र। केचित् तु भावगर्हायाम् इत्यत्र अपि अनुवर्तयन्ति। भक्षमन्थभोगदेहाः एते घञन्ताः। भक्षिर्ण्यन्तो ऽपि घञन्त एव, एरच् 3-3-56 अण्यन्तानाम् इति वचनात्।
TBD.
–
–
–
TBD.