Table of Contents

<<6-1-160 —- 6-1-162>>

6-1-161 अनुदात्तस्य च यत्र उदात्तलोपः

प्रथमावृत्तिः

TBD.

काशिका

उदात्तः इति वर्तते। यस्मिन्ननुदात्ते परतः उदात्तो लुप्यते तस्य अनुदात्तस्यादिरुदात्तो भवति। कुमार ई कुमारी। कुमारशब्दो ऽन्तोदात्तः, तस्य ङीप्यनुदाते उदात्तो लुप्यते। अनुदात्तो ङीपुदात्तः। भस्य टेर्लोपः 7-1-88। पथः। पथा। पथे। पथिन्शब्दो ऽन्तोदात्तः। कुमुदनडवेतसेभ्यो ड्मतुप्। कुमुद्वान्। नड्वान्। वेतस्वान्। कुमुदादयो ऽन्तोदात्ताः। ड्मतुबनुदात्तः। अनुदात्तस्य इति किम्? प्रासङ्गं वहति प्रासङ्ग्यः। प्रासङ्गशब्दस्थाथादिस्वरेण अन्तोदात्तः। तस्य यति तित्स्वरितम् इति स्वरिते उदात्तो लुप्यते? न एतदस्ति, स्वरिते हि विधीयमाने परिशिष्टम् अनुदात्तम्, तत् कुत उदात्तलोपः। तदेतदनुदात्तग्रहणमादेरनुदात्तस्य उदात्तार्थम्। अन्तः इति हि प्रकृतत्वादन्तस्य स्यात्, मा हि धुक्षाताम्, मा हि धुक्षाथाम्। यत्र इति किम्? भर्गवः, भार्गवौ, भृगवः। प्राक् सुबुत्पत्तेर् गोत्रप्रत्ययस्य लुक्। उदात्तग्रहणं किम्? बैदी और्वी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.