Table of Contents

<<6-1-114 —- 6-1-116>>

6-1-115 प्रकृत्या ऽन्तःपादम् अव्यपरे

प्रथमावृत्तिः

TBD.

काशिका

एङो ऽति 6-1-109 इत्येव। एङः इति यत् पञ्चम्यन्तम् अनुवर्तते, तदर्थादिह प्रथमान्तं भवति। प्रकृतिः इति स्वभावः कारणम् वा ऽभिधीयते। अन्तरिति अव्ययम् अधिकरनभूतं मध्यम् आचष्टे। पादशब्देन च ऋक्पादस्य एव ग्रहणम् इष्यते, न तु श्लोकपदस्य। अवकारयकारपरे अति परतः एङ् प्रकृत्या भवति। स्वभावेन अवतिष्ठते कारणात्मना वा भवति, न विकारम् आपद्यते। तौ चेन् निमित्तकार्यिणौ अन्तःपादमृक्पादमध्ये भवतः। ते अग्रे अश्वमायुञ्जन्। ते अस्मिञ्जवमादधुः। उपप्रयन्तो अध्वरम्। शिरो अपश्यम् सुजाते अश्वसूनृते। अध्वर्त्यो अद्रिभिः सुतम्। अन्तःपादम् इति किम्। कया मती कुत एतास एते ऽर्चन्ति। अव्यपरे इति किम्। ते ऽवदन्। तेजो ऽयस्मयम्। एङिति किम्? अन्वग्निरुषसामग्रमख्यत्। केचिदिदं सूत्रं न अन्तःपादम् अव्यपरे इति पठन्ति, ते संहितायाम् इह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.