Table of Contents

<<5-4-88 —- 5-4-90>>

5-4-89 न सङ्ख्यादेः समाहारे

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्यादेस् तत्पुरुषस्य समाहारे वर्तमानस्य अहःशब्दस्य अह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिद्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहारे इति किम्? द्वयोरह्नोः भवः द्व्यह्नः। त्र्यह्नः। तद्धितार्थ इति समासे कृते अणः आगतस्य द्विगोर् लुगनपत्ये 4-1-88 इति लुक्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

783 न सङ्ख्यादेः। अह्नादेश इति। `अह्नोऽह्नः' इत्यतस्तदनुवृत्तेरिति भावः। ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारेऽभावादेव सिद्धे सङ्ख्यादेरिति व्यर्थमित्यत आह–स्पष्टार्थमिति। द्व्यह इति। समाहारे द्विगुः। टच्, `रात्राह्ने'ति पुंस्त्वम्। सङ्ख्यादित्वात्प्राप्तस्याऽह्नादेशस्य निषेधः। त्र्यह इति। त्रयाणामह्नां समाहार इति विग्रहः। समासादि द्व्यहवत्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.