TBD.
उत्तमैकाभ्यां च परस्य अह्नः इत्ययम् आदेशो न भवति। उत्तमशब्दो ऽन्यवचनः पुण्यशब्दम् आचष्टे। पुण्यग्रहणम् एव न कृतम् वैचित्र्यार्थम् पुण्याहः। एकाहः। केचित् तु उपोत्तमस्य अपि प्रतिपत्त्यर्थं वर्णयन्ति। तेन सङ्ख्यातशब्दादपि परस्य न भवति, सङ्ख्याताहः इति।
TBD.
–
784 उत्तमैकाभ्यां च। ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह– उत्तमशब्द इति। उत्तमशब्दोऽन्त्ये वर्तते। यथा द्वादशाहे `उदयनीयातिरात्र उत्तममहः' इति अन्त्यमिति गम्यते। `अहःसर्वैकदेशसङ्ख्यातपुण्या'दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः। तर्हि `पुण्यैकाभ्या'मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह–पुण्यैकाभ्यामित्येवेति। पुण्याहमिति। पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः। `पुण्यसुदिनाभ्यां चे'ति नपुंसकत्वम्। एकाह इति। एकमहरिति विग्रहे `पूर्वकालैके'ति समासः। टच् टिलोपः। उपान्त्यस्यापीति। `लक्षणये'ति शेषः। परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम्। उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः। सङ्ख्याताह इति। सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः। `रात्राह्नाहा' इति पुंस्त्वम्। उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः।
690 पुण्याहमिति। `पुण्यसुदिनाभ्या'मिति क्लीबत्वं वक्ष्यति। उपान्त्यस्यापीति। यथा `प्रथमयो'रिति प्रथमाद्वितीययोग्र्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामथ्र्यादन्त्ययोद्र्वयोग्र्रहणम्। उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः।
TBD.