TBD.
राजाहःसखिभ्यष् टच् 5-4-91 इति वक्ष्यति, तस्मिन् परभूते अहनित्येतस्य अह्नः इत्ययम् आदेशो भवति एतेभ्य उत्तरस्य। सङ्ख्याव्ययादयःप्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न हि अहःशब्दात् परो ऽहःशब्दः सम्भवति। सङ्ख्यायास्तावत् द्व्योरह्नोर् भवः द्व्यह्नः। त्र्यह्नः। अव्ययात् अहरतिक्रान्तः अत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वह्णः। अपराह्णः। सङ्ख्याताह्नः। पुण्यशब्दात् प्रतिषेधं वक्ष्यति।
TBD.
–
780 अह्नोऽह्न एतेब्यः। पूर्वसूत्रे अहःसर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे। अहन्शब्दवर्जं ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहःशब्दः, अहःशब्दात्परस्य अहन्शब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे-सर्वादिभ्य इति। समासान्ते पर इति। एतत्तु प्रकरणाल्लब्धम्।
687 अह्नोऽह्न एतेभ्यः। एतच्छब्देन `अहःसर्वैकदेश—'इति सूत्रस्थाः परामृश्यन्ते। सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च सङ्ख्याव्यये अनुकष्टे। तत्र बुद्धिस्थत्वाऽविशेषेऽप्यहःशब्द इह न गृह्रते, असंभवादित्यशयेनाह—सर्वादिभ्यैति। समासान्ते पर इति। एतच्च प्रकारणाल्लब्धम्। भाष्ये तु अह्नादेशः प्रत्याख्यातः, `अह्न एभ्योऽच्स्याट्ट्चोऽपवादः' इति व्याख्यायाम्, `अह्नष्टखोरेवे ति नियमाट्टिलोपाऽभावे `अल्लोपोऽनः' इत्यकारलोपात्सर्वाह्न इत्यादिरूपसिद्धेः।
TBD.