Table of Contents

<<5-4-90 —- 5-4-92>>

5-4-91 राजाहःसखिभ्यष् टच्

प्रथमावृत्तिः

TBD.

काशिका

राजनहन् सखि इत्येवम् अन्तात् प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्मान् न भवति, मद्राणाम् राज्ञी मद्रराज्ञी? लिङ्गविशिष्टपरिभाषया प्राप्नोति? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति यस्य अकारेण सवर्णदीर्घत्वं सम्भवति तस्य इदं ग्रहणम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.परमाहः - fine day, उत्तमाहः - fine day, or lucky day.

लघु

961 एतदन्तात्तत्पुरुषाट्टच् स्यात्. परमराजः..

बालमनोरमा

778 राजाहःसखिभ्यष्टच्। `तत्पुरुषस्याङ्गुलेः' इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं `राजाहःसखिभ्यः' इत्यनेन विशेष्यते। तदन्तविधिः। तदाह- -एतदन्तादिति। परमराज इति। परमश्चासौ राजा चेति विग्रहः। `अत्यादयः' इति समासः। टचि टिलोपः। कृष्णसख इति। कृष्णस्य सखेति विग्रहः। समासान्तष्टच्। `यस्येति चे'ति इकारलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.