Table of Contents

<<5-4-76 —- 5-4-78>>

5-4-7 अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्षामवाङ्मनसाक्षिभ्रुवदारगवौउर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षौपशुनगोष्ठश्वाः

प्रथमावृत्तिः

TBD.

काशिका

अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते। समासे व्यवस्था अपि निपातनादेव प्रतिपत्तव्या। आद्यास्त्रयो बहुव्रीहयः। अदृश्यानि अविद्यमानानि वा चत्वारि यस्य सो ऽचतुरः। विगतानि चत्वारि यस्य स विचतुरः। शोभनानि चत्वारि यस्य स सुचतुरः। अतः परे एकादश द्वन्द्वाः। स्त्री च पुमांश्च स्त्रीपुंसौ। इह न भवति, स्त्रियाः पुमानिति। धेनुश्च अनड्वांश्च धेन्वनडुहौ। ऋक् च साम च ऋक्षामे। वाक् च मनश्च वाङ्मनसे। अक्षि च भ्रुवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगवम्। ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्। टिलोपो निपात्यते। पादौ च अष्ठीवन्तौ च पदष्ठीवम्। पादस्य पद्भावो निपात्यते। नक्तं च दिवा च नक्तंदिवम्। दप्तम्यर्थवृत्तयोरव्यययोः समासो ऽपि निपातनादेव। रात्रौ च दिवा च रात्रिंदिवम्। पूर्वपदस्य मान्तत्वं निपात्यते। अहनि च दिवा च अहर्दिवम्। ननु च पर्यायावेतौ, कथम् अनयोर् द्वन्द्वः? वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनि इत्यर्थः। एको ऽव्यव्यीभावः साकल्ये सरजसमभ्यवहरति। बहुव्रीहौ न भवति, सह रजसा सरजः पङ्कजम् इति। ततः तत्पुरुषः निश्चितं श्रेयो निःश्रेयसम्। निःश्रेयस्कः पुरुषः इत्यत्र न भवति। ततः षष्ठीसमासः पुरुषस्य आयुः पुरुषायुषम्। द्वन्द्वे न भवति, पुरुषश्च आयुश्च पुरुषायुषी। ततो द्विगू द्वे आयुषी समाहृते द्व्यायुषम्। त्र्यायुषम्। इह न भवति, द्व्योरायुः द्व्यायुः त्र्यायुः इति। ततो द्वन्द्वः ऋक् च यजुश्च ऋग्यजुषम्। इह न भवति, ऋग्यजुरस्य उन्मुग्धस्य ऋग्यजुरुन्मुग्धः। जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः जातोक्षः। महोक्षः। वृद्धोक्षः। बहुव्रीहौ न भवति, जातोक्षा ब्राह्मणः। महोक्षा, वृद्धोक्षा इति। ततो ऽव्ययीभावः शुनः समीपम् उपशुनम्। टिलोपाभावः सम्प्रसारणं च निपातनादेव। ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः। चतुरो ऽच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम्। त्रिचतुराः। उपचतुराः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

932 अचतुर। आद्यास्त्रयो बहुव्रीहय इति। बहुव्रीहय एवेत्यर्थः। भाष्यवाक्यमिदम्। अचतुर इति। `नञोऽस्त्यर्थाना'मिति विद्मानपदलोपः। विचतुर इति। विगतानि चत्वारि यस्येति विग्रहः। सुचतुर इति। सु=शोभनानि चत्वारि यस्येति विग्रहः। `न पूजना'दिति निषेधो बाध्यते। यश्चतुर्शब्दस्तस्मादजिष्यते। त्रिचतुरा इति। त्रयो वा चत्वारो वेति विग्रहः। `सङ्ख्याव्ययासन्ने'ति बहुव्रीहिः। `बहुव्रीहौ सह्ख्येये ड'जिति डचं बाधित्वाऽच्। डचि तु टिलोपः स्यात्। उपचतुरा इति। त्रयः पञ्च वेत्यर्थः। `सङ्ख्ययाव्यये'ति बहुव्रीहिः। अच्। तत एकादश द्वन्द्वा इति। द्वन्द्वा एवेत्यर्थः। इदमपि भाष्यवाक्यम्। स्त्रीपुंसाविति। स्त्री च पुमांश्चेति विग्रहः। अच्। धेन्वड्वाहाविति न भवति। समाहारद्वन्द्वे तु `द्वन्द्वाच्चुदषहान्ता'दित्येव सिद्धम्। ऋक्सामे इति। ऋक्च साम चेति विग्रहः। अच्। टिलोपः। ऋक्सामनी इति न भवति। वाङ्मनसे इति। वाक् च मनस्चेति विग्रहः। अच्। वाङ्मनसी इति न भवति। अक्षिभ्रुवमिति। अच्। प्राण्यङ्गत्वादेकवत्त्वम्। अक्षिभ्रु इति न भवति। दारगवमिति। समाहारद्वन्द्वादच्। `दारगु' इति न भवति। इतरेतरयोगद्वन्द्वे तु दारगावः। ऊर्वष्ठीवमिति। प्राण्यङ्गत्वादेकवत्त्वम्। ऊरू-सक्थिनी। अष्ठीवन्तौ=जानुनी। `सक्थि क्लीबे पुमानू रूः' इति, `जानूरूपर्वाष्ठीवदस्त्रिया'मिति चामरः। नन्वडित्त्वादनान्तत्वाच्च कथं टिलोप इत्यत आह–निपातनाट्टिलोप इति। पटष्ठीवमिति। पादौ चाऽष्ठीवन्तौ चेति द्वन्द्वादच्। प्राण्यङ्गत्वादेकवत्त्वम्। नन्वभत्वात्कथमिह पादशब्दस्य पद्भाव इत्यत आह– निपातनादिति। नक्तमिति मान्तमव्ययम्। दिवेत्याकारान्तमव्ययम्। नक्तंदिवेति द्वन्द्वादच्। `यस्येति चे'त्याकारलोपः, `अव्ययीभावश्चे'त्यव्ययत्वम्, नपुंसकत्वं च। `नाव्ययीभावा'दित्यम्भावः। मान्तत्वमिति। रात्रौ च दिवा चेति द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः। यस्येति चे'त्याकारलोपः, अम्भावश्च। नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात्साहित्याऽभावात्कथमिह द्वन्द्वः। अहव्र्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि `विरूपाणामपि समानार्थकाना'मित्येकशेषो दुर्वार इत्यत आह-वीप्साया द्वन्द्वो निपात्यत इति। `नित्यवीप्सयो'रिति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यत इत्यर्थः। सरजसमिति। रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः। रजः=धूलिः। साकल्ये सहशब्दस्य रजश्शब्देनाऽव्ययीभावः। `अव्ययीभावे चाकाले' इति सह शब्दस्य सभावः। अच्। अव्ययीभाव इति। भाष्ये तथावचनादव्ययीभावस्य ग्रहणमिति भावः। सरजः पङ्कजमिति। रजोभिः परागैः सहेति विग्रहः। `तेन सहेति तुल्ययोगे' इति बहुव्रीहिः। `वोपसर्जनस्ये'ति सहस्य सः। बहुव्रीहित्वान्नाऽच्। निऋश्रेयसमिति। कर्मधारयादच्। तत्पुरुष एवेति। तथा भाष्यादिति भावः।निःश्रेयानिति। निश्चितं श्रेयो यस्येति बहुव्रीहित्वान्नाऽजिति भावः। `ईथसश्चे'ति निषेधान्न कप्। पुरुषायुषमिति। षष्ठीसमासादजिति भाष्यम्। ततो द्विगू इति। भाष्यवाक्यमिदम्। द्व्यायुषं त्र्यायुषमिति। द्वयोरायुषोः समाहार इति, त्रयाणामायुषां समाहार इति च विग्रहः। `तद्धितार्थ' इति द्विगोरच्। ततो द्वन्द्व इति। भाष्यवाक्यमिदम्। ऋग्यजुषमिति। ऋचश्च यजूंषि च एषां समाहार इति समाहारद्वन्द्वः। ततस्त्रयः कर्मधारया इति। तथा भाष्यादिति भावः। जातोक्ष इति। जातश्चासावुक्षा चेति विग्रहः। अचि सत्युक्षन्शब्दे टिलोपः। महोक्ष इति। महांश्चासावुक्षा चेति विग्रहः। `आन्महतः' इत्यात्त्वम्। अचि टिलोपः। वृद्धोक्ष इति। वृद्धश्चासावुक्षा चेति विग्रहः। अचि टिलोपः। उपशुनमिति। अव्ययीभावादच्, तथा बाष्यात्। नन्वत्र `नस्तद्धिते' इति टिलोपः कुतो न स्यात्, `अतद्धिते' इति पर्युदासात् `\उfffदायुवमघोनामतद्धिते' इति कथं वा संप्रसारणं स्यादित्यत आह–टिलोपाऽभाः संप्रसारणं च निपात्यत इति। गोष्ठ\उfffदा इति। `सप्तमीसमासाद'जिति भाष्यम्। अत एव भाष्यात्सप्तमीसमासः। टिलोपः। `अतद्धिते' इति निषेधान्न संप्रसारणम्। षष्ठीतत्पुरुषे तु–गोष्ठ\उfffदाआ।

तत्त्वबोधिनी

808 अचतुर। निपात्यन्त इति। निपातनफलं तु समासविशेषनियमः, टिलोपादिकं च। तदाह— आद्या इति। बहुब्राईहय इति। बहुव्रीहय एवेत्यर्थः। तेन तत्पुरुषो अचत्वारो विचत्वार इत्येव भवतीति भावः। एवमुत्तरत्राप्यवधारणमुह्रम्। चतुरोऽजिष्यते। त्रिचतुरा इति। त्रयश्चत्वारो वेति विग्रहः। `सङ्ख्याव्ययासन्ने'ति बहुव्रीहिः। `बहुव्रीहौ सङ्ख्येये'इति डचोऽपवादोऽच्। अक्षिभ्रुवमिति। प्राण्यङ्गत्वादेकवत्। ऊरू चाष्ठीवन्तौ चेति। `सक्थि क्लीबे पुमानूरुः'इत्यमरः। `जानूरुपूर्वाऽष्ठीवदस्त्रिया'मिति च। ऊर्वष्ठीवं। पदष्ठीवमिति। प्राण्यङ्गत्वादेकवद्भावः। द्वन्द्वो निपात्यत इति। `विरूपाणामपू'त्येकशेषं बाधित्वेति शेषः। सरजसमिति। `अव्ययीभावे चाऽकाले'इति सहस्य सभावः। सरजः पङ्कजमिति।`सरजसमकरन्दमिर्भरासु'इति माघप्रयोगस्तु चिन्त्य इति भावः। निःश्रेयानिति। `निश्चितं श्रेयो येने'ति विग्रहः। `निः श्रेयस्कः'इति केषाञ्चित्प्त्र्युदाहरणमशुद्धम्, `ईयसश्चे'ति कपो निषेधात्। गोष्ठे \उfffदोति। एतेन `सप्तमीतत्पुरुष एवे'ति नियमो दर्शितः, तेन षष्ठीतत्पुरुषे `गोष्ठ\उfffदाआ'इत्येव।

Satishji's सूत्र-सूचिः

TBD.