Table of Contents

<<5-4-77 —- 5-4-79>>

5-4-78 ब्रह्महस्तिभ्यां वर्चसः

प्रथमावृत्तिः

TBD.

काशिका

ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस् तदन्तात् समासादच् प्रत्ययो भवति। ब्रह्मवर्चसम्। हस्तिवर्चसम्। पल्यराजभ्यां च इति वक्तव्यम्। पल्यवर्चसम्। राजवर्चसम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

सिद्धान्तकौमुदी

5-4-775-4-79
946) अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । ’पल्यराजभ्यां चेति वक्तव्यम् (वा० ३३५२)’ । पल्यवर्चसम् । राजवर्चसम् ॥

बालमनोरमा

933 ब्राहृ। शेषपूरणेन सूत्रं व्याचष्टे–अच्स्यादिति। ब्राहृवर्चसमिति। ब्राहृणो वर्च इति विग्रहः। हस्तिवर्चसमिति। हस्तिनो वर्च इति विग्रहः। वक्तव्यमित्यर्थः। पल्यवर्चसमिति। पलं मांसं, तदर्हति पल्यः। मांसभोजीत्यर्थः। तस्य वर्च इति विग्रहः। राजवर्चसमिति। राज्ञां वर्च इति विग्रहः।

तत्त्वबोधिनी

809 ब्राहृवर्चसमिति। षष्ठीतत्पुरुषः। एवं हस्तिवर्चसमपि। चेतिवक्तव्यम्। पल्येति। पलं मांसमर्हती'ति पल्यो मांसभोजी, तदीयं वर्चः– पल्यवर्चसम्।

Satishji's सूत्र-सूचिः

TBD.