TBD.
अषडक्ष आशितङ्गु अलग्कर्म अलम्पुरुष इत्येतेभ्यः अध्युत्तरपदात् च स्वार्थे खः प्रत्ययो भवति। अविद्यमानानि षड्क्षीणि अस्य इति बहुव्रीहिः। बहुव्रीहौ सक्थ्यक्ष्णोः इति षच्, ततः खप्रत्ययः। अषडक्षीणो मन्त्रः। यो द्वाभ्यम् एव क्रियते न बहुभिः। आशिता गावो ऽस्मिन्नरण्ये आशितङ्गवीनम् अरण्यम्। निपातनात् पूर्वपदस्य मुमागमः। अकङ्कर्मन्, अलम्पुरुषः इति पर्यादयो ग्लानद्यर्थे चतुर्थ्या इति समासः। अलं कर्मणे अलङ्ककर्मीणः। अलं पुरुषाय अलंपुरुषीणः। अध्युत्तरपदस् तत्पुरुसः। अधिशब्दः शौण्डादिसु पठ्यते। राजाधीनः। नित्यश्च अयं प्रत्ययः, उत्तरत्र विभाषाग्रहणात्। अन्ये ऽपि स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते, तमबादयः प्रक्क्नः, ञ्यादयः प्राग्वुनः, आमादयः प्राङ् मयटः, बृहतीजात्यन्ताः समानान्ताश्च इति।
TBD.
–
अषडक्षीणो मन्त्र इति। मन्त्रणं मन्त्रः। रहसि राजतदमात्यादिभिर्युक्तिभिः क्रियमाणं निर्धारणम्। अविद्यमानानि षट् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः। `बहुव्रीहौ सवथ्यक्ष्णो'रिति षच्। तदन्तादनेन स्वार्थे खः। द्वाभ्या मेवेति। `पुरुषाभ्या'मिति शेषः। आशिता इति। `अश भोजने' इत्यस्मादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः। पूर्वस्य मुमिति। आशितशब्दस्येत्यर्थः। अलङ्कर्मीण इति। `पर्यादयो ग्लानाद्यर्थे' इति चतुर्थीसमासात्खः, टिलोपः अलम्पुरुषीण इति। अलं पुरुषायेति विग्रहः। `मातृभोगीण' इत्यादाविव अषडक्षीणादौ णत्वम्। `पदव्यवायेऽपी'ति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात्। ई\उfffदाराधीन इति। `यस्मादधिक'मिति ई\उfffदारशब्दात्सप्तमी। शौण्डादित्वादधिशब्देन समासः। ततः स्वार्थे खः। `समर्थाना'मित्यतो वाग्रहणानुवृत्त्या अस्य वैकल्पकत्वभ्रमं वारयति– नित्यो।ञयं ख इति। उत्तरेति। `विभाषाऽञ्चे'रित्युत्तरसूत्रे `समर्थाना'मित्यतो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः। नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मणे इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम्, तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात्। प्रसङ्गादाह–अन्येऽपीति। इष्यन्त इति। `भाष्यकृते'ति शेषः। तमबादयः प्राक्कन इति। `अतिशायने तम'वित्यारभ्य `अवक्षेपणे क'न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः। ञ्यादयः प्राग्वुन इति। `पूगाञ्ञ्योऽग्रामणीपूर्वा'दित्यारभ्य `अवक्षेपणे क'न्नित्यतः प्राग्विहिताः प्रत्यया इत्यर्थः। आमादयः प्राङ्भयट इति। `किमेत्तिङव्ययघादा'मित्यारभ्य `तत्प्रकृतवचने मयट्' इत्यतः प्राग्विहिता इत्यर्थः। बृहतीजात्यन्ता इति। बृहतीशब्देन `बृहत्या आच्छादने' इति कन् लक्ष्यते। जात्यन्तशब्देन तु `जात्यन्ताच्छ बन्धुनी'ति छो लक्ष्यते। बहुवचननिर्देशात्पाशबादयो।ञपि `षष्ठ\उfffदा रूप्य चे'त्यन्ता गृह्रन्त इति कैयटः। वस्तुतस्तु परिगणिता एव नित्या, नतु पाशबादयोऽपि। `बृहतीजात्यन्ताः' इति बहुवचनं तु `बृहत्या आच्छादने' इति `जात्यन्ताच्छ बन्धुनी'ति च सूत्रयोर्मध्यगतेन `अषडक्षे'ति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः। `विभाषाऽञ्चे'रिति उत्तरसूत्रे खविधौ विभाषाग्रहणं तु तस्यापि बृहजात्यन्तरालवर्तित्वाऽविशेषान्नित्यत्वे प्राप्ते विकल्पार्थम्। `अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणा'दिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेस्वरे स्थितम्।
1547 अषडक्षीण इति। अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिः अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते। `बहुव्रीहौ सक्थ्यक्ष्णो'रिति षच्। तदन्तादनेन खः। मन्त्रो मन्त्रणम्। आशितंगवीनमिति। आह्पूर्वादश्नोतेः `अशितः कर्ते'ति ज्ञापकात्कर्तरि क्तः, ण्यन्तात्कर्मणि वा। उभयथापि प्रभूतयवसमिति फलितोऽर्थः। अलङ्कर्मीण इति। अलङ्कर्म अलंपुरुषेति `पर्यादयो ग्लानाद्यर्थे चतुर्थ्ये'ति समासः। अलंपुरुषीण इति। प्रतिमल्लादिः। ई\उfffदाराधीन इति। अधिशपब्दः शौण्डाडिरित्युक्तम्। तमबादय इत। `अतिशायने तमबि'त्यादयः। प्राक्कन इति। `अवक्षेपणे कन्'इति विहितात्। ञ्यादय इति। `पूगाञ्?ञ्योऽग्रामणीपूर्वा'दित्यादयः। प्राग्वुन इति। `पादशतस्य सङ्ख्यादेः'इति बिहितात्। आमादय इति। `किमेत्तिह्व्ययगादामु—'इत्यादयः। प्राङ्मयट इति। `तत्प्रकृतवचने मयट्'इत्यतः प्रागित्यर्थः। बृहतीजात्यन्ता इति। `बृहती'शब्देन `बृहत्या आच्छादने'इति विहितः कन्नुपलक्ष्यते। `जात्यन्त'शब्देन `जात्यन्ताच्चे'ति च्छः। बहुवचननिर्देशबादयो गृह्रन्ते। यो हि वैयाकरणपाशादिशब्दैरर्थः प्रतीयते नासौ प्रकृतिमात्रेण प्रतीयते इति तेऽपि तमबादिवन्नित्या एवेति स्थितमाकरे। कन्छौ मुक्त्वा मूले बृहतीमात्रप्रयोगो जात्यन्तमात्रप्रयोगास्च कृतः, स तु अवाचकोऽप्यार्षग्रन्थानुवादकत्वान्न दोषाय।
TBD.