Table of Contents

<<5-4-75 —- 5-4-77>>

5-4-76 अक्ष्णो ऽदर्शनात्

प्रथमावृत्तिः

TBD.

काशिका

अचित्यनुवर्तते। दर्शनादन्यत्र यो ऽक्षिशब्दः तदन्तातच् प्रत्ययो भवति। लबणाक्षं। पुष्कराक्षम्। उपमितं व्याघ्रादिभिः इति समासः। अदर्शनातिति किम्? ब्राह्मणाक्षि। कथं कबराक्षम्, गवाक्षम् इति? अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेन अपि हि दृश्यते, गवाक्षेण च? न एष दोषः। चक्षुःपर्यायवचनो दर्शनशब्दः प्राण्यङ्गवचन इह अश्रीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

997 अचक्षुःपर्यायादक्ष्णोऽच् स्यात्समासान्तः. [“]गवामक्षीव गवाक्षः\उ2019..

बालमनोरमा

776 अथ तत्पुरुषेष्वसाधारणसमासान्तान् वक्तुमुपक्रमते–तत्पुरुषस्याङ्गुलेः। `अच्प्रत्यन्ववपूर्वा'दित्यतोऽजित्यनुवर्तते, `समासान्त' इत्यधिकृतम्। तेन समासस्य अन्तावयव इति लभ्यते। प्रत्ययः परश्च इत्यधिकारादच्प्रत्ययस्य तत्पुरुषात्परत्वेऽपि तस्य तदवयवत्वादङ्गुलेरित्यवयवषष्ठी। अङ्गुलेरिति तत्पुरुषविशेषणं, तदान्तविधिः। तदाह संख्याव्ययादेरिति। सङ्ख्या च अव्ययं च सङ्ख्याव्यये, ते आदी यस्येति विग्रहः। द्व्यङ्गुलमिति। तद्धितार्थ' इति द्विगुः। प्रमामे द्वयसज्दघ्नञ्मात्रचः `प्रमाणेलो द्विगोर्नित्य'मिति लुक्। द्व्यङ्गुलिशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे `यस्येति चे'ति इकारलोपः। निरङ्गुलमिति। `निरादयः क्रान्ताद्यर्थे' इति समासः अच् इलोपः।

तत्त्वबोधिनी

807 अक्ष्णो। दृश्यतेनेनेति दर्शनं चक्षुः, तद्वाचिनोऽक्षिशब्दस्य पर्युदासादमुख्यस्य ग्रहणमित्याशयेनाह—अचक्षुःपर्यायादिति। गवाक्ष इति। गावः– किरणाः। अक्षिशब्दो रन्ध्रवाची। षष्ठीसमासः।

Satishji's सूत्र-सूचिः

TBD.