TBD.
क्षेपे यः किंशब्दः ततः परस्य समासान्तो न भवति। किंराजा यो न रक्षति। किंसखा यो ऽभिद्रुह्यति। किंगौर्यो न वहति। किं क्षेपे 2-1-64 इति समासः। क्षेपे इति किम्? कस्य राजा किंराजः। किं सखः। किंगवः।
TBD.
–
–
813 किमः क्षेपे। क्षेपग्रहणमिह शक्यमवक्तुं, प्रतिपदोक्तपरिभाषया `किं क्षेपे' इति विहितसमासस्यैव ग्रहणात्। किंराज इत्यादि। किमत्र प्रश्ने षष्ठीसमासः, कर्मधारयो वा।
TBD.