Table of Contents

<<5-4-70 —- 5-4-72>>

5-4-71 नञस् तत्पुरुषात्

प्रथमावृत्तिः

TBD.

काशिका

नञः परे वक्ष्यमाणा ये राजादयस् तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा असखा। अगौः। तत्पुर्षातिति किम्? अनृचो माणवकः। अधुरं शकटम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

941 निन्दानवगमान्न टचो निषेधः। नञस्तत्पुरुषात्। शेषपूरणेन सूत्रं व्याचष्ट– समासान्तो नेति। नञ्पूर्वंपदात्तत्पुरुषात्समासान्तो नेति फलितम्। अधुरं शकटमिति। अविद्यमाना धूर्यस्येति विग्रहः। नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् `ऋक्पू'रिति समासान्तस्य न निषेधः।

तत्त्वबोधिनी

814 नञस्तत्पुरुषात्। `नञः'इति षष्ठी। नञः सम्बन्धी यस्तत्पुरुषो नञवयवकस्तस्मादित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.