Table of Contents

<<5-4-70 —- 5-4-72>>

5-4-71 नञस् तत्पुरुषात्

प्रथमावृत्तिः

TBD.

काशिका

नञः परे वक्ष्यमाणा ये राजादयस् तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा असखा। अगौः। तत्पुर्षातिति किम्? अनृचो माणवकः। अधुरं शकटम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

941 निन्दानवगमान्न टचो निषेधः। नञस्तत्पुरुषात्। शेषपूरणेन सूत्रं व्याचष्ट– समासान्तो नेति। नञ्पूर्वंपदात्तत्पुरुषात्समासान्तो नेति फलितम्। अधुरं शकटमिति। अविद्यमाना धूर्यस्येति विग्रहः। नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् `ऋक्पू'रिति समासान्तस्य न निषेधः।

तत्त्वबोधिनी

814 नञस्तत्पुरुषात्। `नञः'इति षष्ठी। नञः सम्बन्धी यस्तत्पुरुषो नञवयवकस्तस्मादित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.