Table of Contents

<<2-1-63 —- 2-1-65>>

2-1-64 किं क्षेपे

प्रथमावृत्तिः

TBD.

काशिका

किम् इत्येतत् क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति। किंराजा, यो न रक्षति। किंसखा, यो ऽभिद्रुह्यति। किंगौः, यो न वहति। किमः क्षेपे 5-4-70 इति समासान्तो न भवति। क्षेपे इति किम्? को राजा पाटलिपुत्रे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

733 किं क्षेपे। क्षेपो निन्दा। तत्रगम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। कुत्सितो राजेति। अस्वपदविग्रहोऽयम्। किम्पदस्थाने कुत्सिदपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहाऽसम्भवात्। किंराजेति। `राजाहःसखिभ्यः' इति टच् तु न, `किमः क्षेपे' इति निषेधात्। ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह–यो न रक्षतीति। स किराजेत्यन्वयः।

तत्त्वबोधिनी

649 किं क्षेपे। किंराजेति। `किमः क्षेपे'इति समासान्तनिषेधः। क्षेपे किम्?। को राजा पाटलिपुत्रे। एवं `किंसखा यो दहति' `किंगौर्यो न वहति' इत्यप्युदाहरणं बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.