TBD.
यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सो ऽव्ह्यक्तः। तस्य अनुकरणम् अव्यक्तानुकरणम्। द्व्यचवरार्धं यस्य तद् द्व्यजवरार्धम्। अवरशब्दो ऽपकर्षे। यस्य अपकर्षे क्रियमाणे सुष्ठु न्यूनमर्धं द्व्यच्कं सम्पद्यते, तस्मादव्यक्तानुकरणादनितिपराड् डाच् प्रत्ययो भवति। कृभ्वस्तियोगे इत्यनुवर्तते। यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः। डाचि बहुलं द्वे भवतः इति विषयसप्तमी। डाचि विवक्षिते द्विर्वचनम् एव पूर्वं क्रियते, पश्चात् प्रत्ययः। पटपटाकरोति। पटपटाभवति। पटपटास्यात्। दमदमाकरोति। दमदमाभवति। दमदमास्यात्। अव्यक्तानुकरणातिति किम्? दृषत्करोति। द्वजवरार्धातिति किम्? श्रत्करोति। अवरग्रहणम् किम्? खरटखरटाकरोति। त्रपटत्रपटाकरोति। अनितौ इति किम्? पटिति करोति। चकारः स्वरार्थः, स्वरितबाधनार्थः। पटपटासि, अत्र स्वरितो वा ऽनुदात्ते पदादौ 8-2-6 इति स्वरितो न भवति। केचिद् द्व्यजवरार्ध्यादिति यकारं पठन्ति, स स्वर्थिको विज्ञेयः।
TBD.
1250
अव्यक्तानुकरणात्। यत्र ध्वनौ अकारादयो वर्णविशेषा न व्यज्यन्ते सोऽव्यक्तो ध्वनिः। तस्यानुकरणम्–अव्यक्तानुकरणम्। `द्व्यजवरार्ध'शब्दं व्याचष्टे– द्व्यजिति। द्वावचौ यस्येति विग्रहः। अवरशब्दं व्याचष्टे–न्यूनमिति। द्व्यजेव अवरं=न्यूनसंख्याकमिति सामानाधिकरण्येनान्वयः। न तु ततो न्यूनमिति। एकाच्कमित्यर्थः। फलितमाह–अनेकाजिति यावदिति। तादृशमर्थमिति। अनेकाच्कम् अर्धं=भागो यस्य तत्–द्व्यजवरार्धम्। तस्मादित्यर्थः। कृभ्वस्तिभिर्योगे इति। मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। अनेकाच्कभागयुक्तादव्यक्तानुकरणाच्छब्दात्कृभ्वस्तियोगे डाच् स्यादिति फलितम्। अथ पटच्छब्दादव्यक्तानुकरणाड्डाटमुदाहरिष्यन्पटच्छब्दस्य द्विर्वचनमाह–डाचि विवक्षिते द्वे बहुलमिति। यद्यपि `सर्वस्य द्वे' इति प्रकरणे `डाचि द्वे भवत इति वक्तव्य'मित्येव भाष्ये वार्तिकं पठितम्। तत्र डाचि परत इति नाऽर्थः, तथा सति डाचि सतु पटच्छब्दस्य द्विर्वचनं, सति च द्विर्वचने अद्र्धस्याऽनेकाच्त्वाड्डाजित्यन्योन्याश्रयापत्तेः। अतो डाचि विवक्षिते इत्याश्रितम्। \र्\नेवंच डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाड्डाच् सूपपादः। पटत्, पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति–नित्यमाम्रेडिते डाचीति। `एकः पूर्वपरयो'रित्यधिकारे पररूपप्रकरणे `नाम्रेडितस्यान्त्यस्य तु वे'ति सूत्रभाष्ये इदं वार्तिकं पठितम्। डाच्परमिति। डाच् परं यस्मादिति विग्रहः। पकार इति। तथा च पटपठत् आ करोतीति स्थिते डित्त्वाट्टिलोपे पटपटाकरोतीति रूपमित्यर्थः। अवरेति किमिति। द्व्यजर्दादित्येवास्त्वित्यर्थः। घरटघरटाकरोतीति। घरटत् इत्यव्यक्तानुकरणाड्डाचि द्विर्वचने पररूपे टिलोपे रूपम्। `द्व्यजर्धा'दित्युक्ते तु अर्धभागस्य घरटदित्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः। अनेकाच इत्येवेति। `द्व्यजवरार्धा'दित्यपनीय `अव्यक्तानुकरणादनेकाचोऽनितौ डाजि'त्येव सूत्रयितुमुचितमित्यर्थः। एवं हीति। `अनेकाचोऽनितौ' इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वाड्डाच् संभवतीति `डाचि परतो द्वित्व'मिति वक्तुं शक्यमिति भावः। पटितीति। `अव्यक्तानुकरणस्ये'ति पररूपम्।
–
TBD.