TBD.
सातिर् निवृत्तः, त्रा प्रत्ययो ऽनुवर्तते। देवादिभ्यः प्रातिपदिकेभ्यः द्वितीयासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम्। कृभ्वस्तिभिः इति न अत्र सम्बध्यते। सामान्येन विधानम्। देवान् गच्छति देवत्रा गच्छति। देवेषु वस्ति देवत्रा वसति। मनुष्यान् गच्छति मनुष्यत्रा गच्छति। मनुष्येषु वसति मनुष्यत्रा वसति। एवम् अन्येष्वप्युदाहार्यम्। पुरुषान् गच्छति पुरुत्रा गच्छति। मर्त्यान् गच्छति मर्त्यत्रा गच्छति। मर्त्येषु वसति मर्त्यत्रा वसति। बहुलवचनादन्यत्र अपि भवति, बहुत्रा जीवतो मनः इति।
TBD.
–
देवमनुष्यपुरुष। एभ्य इति। देव, मनुष्य, पुरुष, पुरु, मत्र्य-इत्येतेभ्य इत्यर्थः। अत्यन्तस्वार्थिकोऽयम्। `साती'ति `कृभ्वस्तियोगे' इत्यपि निवृत्तम्। देवत्रा वन्दे रमे वेति। देवान् वन्दे, देवेषु रमे वेत्यर्थः। मनुष्यत्रा, पुरुषत्रा। पुरुशब्दो बहुलपर्यायः। पुरुत्रा। मत्र्यत्रा। अन्यत्रापीति। देवादिभ्योःऽन्यत्रापीत्यर्थः। बहुत्रा जीवतो मन इति। जीवतो जन्तोर्मनो बहुषु विषयेषु गच्छति। बहून् व्याप्नोतीत्यर्थः।
1581 वन्दे रमे इति। देवान् बन्दे–देवत्रा वन्दे। देवेषु रमे–देवत्रा रमे इत्यर्थोऽत्र पर्यवसन्नः। एवं मनुष्यन् गच्छति–मनुष्यत्रा गच्छति। मनुष्येषु वसति। पुरुषान् गच्छति—परुरत्रा गच्छति। पुरुषेषु वसति—पुरषत्रा वसति। `पुरु'शब्दो बहुपर्यायः। पुरून् गच्छति पुरुष वसति वा पुरुत्रा। मत्र्यान्मत्र्येषु वा—मत्र्यत्रा। विवक्षित इति। परसप्तम्यां त्वन्योन्याश्रयः स्यात्। डाचि कृते द्वित्वे सति व्द्यजवरार्धता, तस्यां च सत्यां डाजिति भावः। वक्तव्यम्।खरटखरटाकरोतीति। द्वित्वपररूपादि प्राग्वात्। `व्द्यजवरार्धा'दित्यक्ते त्वत्र डाज्न स्यात्। न ह्रत्रार्ध व्द्यच्, किं तुत्र्यच्। अनेकाच इत्येवेति। `व्दयजवरार्धा'दित्यपनीयेत्यर्थः। पटितीति। `अव्यक्तानुकरणस्यात इतौ'इति पररूपम्। नन्वत्र करोतिना योगो दुर्लभः, इतिशब्देन व्यवधानात्, तथा चाऽनिताविति व्यर्थमिति चेत्। अत्राहुः—इतिशब्देन करोत्यर्थगतप्रकार एव परामृश्यते, इत्येवंप्रकारेण करोतीति। तथा च पटच्छब्दस्यार्थद्वारा योगोऽस्त्येवेति।
TBD.