Table of Contents

<<5-4-16 —- 5-4-18>>

5-4-17 सङ्क्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच्

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यम् अभ्यावृत्तिः। एकककार्तृणां तुल्यजातीयानां क्रियाणां जन्मसङ्ख्यानं क्रियाभ्यावृत्तिगणनं, तत्र प्रत्ययः। पञ्चवारान् भुङ्क्ते पञ्चकृत्वः। सप्तकृत्वः। सङ्ख्यायाः इति किम्? मूरीन् वारान् भुङ्क्ते। क्रियाग्रहणम् किमर्थम्, यावता अभ्यवृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोः? उत्तरार्थं क्रियाग्रहणम्। एकस्य सकृच् च 5-4-19 इत्यत्र क्रिय एव गण्यते, न अभ्यावृत्तिः, असम्भवात्। अभ्यावृत्तिग्रहणं किम्? क्रियामात्रग्रहणे मा भूत्। पञ्च पाकाः। दश पाकाः। गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव सङ्ख्या? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः सङ्ख्येयवचनेभ्य एव प्रत्ययः स्यात्, शतवारान् भुङ्क्ते शतकृत्वः इति? इह न स्यात्, शतं वाराणां भुङ्क्ते इति? न ह्यत्र अभ्यावृत्तौ शतशब्दः, सङ्ख्यानमात्रवृत्तित्वात्। गणनग्रहणात् तु सर्वत्र सिद्धं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

संङ्ख्यायाः। अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रेत, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह–अभ्यावृत्तिर्जन्मेति। उपसर्गवशात् `वृतु वर्तने' इति धातोरुत्पत्तौ वृत्तिरिति भावः। कुत्वसुचि चकार इत्। उकार उच्चारणार्थः। `तद्धितश्चाऽसर्वविभक्ति'रित्यत्र तसिलादिषु परिगणनात्कृत्वोऽर्थानामव्ययत्वम्। पञ्चकृत् वो भुङ्क्त इति। पञ्चत्त्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः। सङ्ख्यायाः किमिति। गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः। भूरिवारान्भुङ्क्ते इति। भूरिशब्दो बहुशब्दपर्यायः। वारशब्दस्तु समभिव्याह्मतक्रियापर्याप्ते काले वर्तते। `कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया। बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः। भोजनबहुत्वं त्वर्थाद्गम्यते। तथा च वारशब्दोऽयं न गणनवाची। भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्रते, `बहुगणवतुडति सङ्ख्ये'त्यत्र बहुग्रहणेन तत्पर्यायस्य असङ्ख्यात्वबोधनात्, अतोऽत्र न कृत्वसुच्।

तत्त्वबोधिनी

1553 भूरिवारानिति। भूरिशब्दस्य लौकिकसङ्ख्यावाचित्वेऽपि नेह ग्रहणम्, `बहुगणे'ति सूत्रे बहुग्रहणमस्य नियमार्थत्वात्। `अनियतसङ्ख्यावाचिनां चेद्भवति बहोरेवे'ति नियमशरीरमिति मनोरमा। `बहुगणयोरेवे'ति नियमशरीरिमित्यन्ये। वारशब्दस्य क्रियोत्पत्त्याधारकालवाचित्वात् `कालाध्वनो'रिति द्वितीयेति हरदत्तः। ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणात्वात्काल एव वर्तत इति कथमत्र प्रसङ्ग इति चेत्। अत्राहुः—–कालवाचित्वेऽपि क्रियाभ्यावृत्तेरपि गम्यमानत्वात्प्रसङ्गैति। अभ्यावृत्तिगणने किम्?। पञ्चपाकाः, दश पाकाः—इत्यत्र क्रियामात्रगणने माभूत्। क्रियाग्रहणं किमर्थम्। यावताऽभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयत्वात्तस्याः,न द्रव्यगुणयोः, तयोस्तु सिद्धस्वभावतया शब्दाभिधानात्। `पुनःपुनर्दण्डः', `पुनः–पुनः स्थूलः'—इत्यत्रापि दम्यामानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयोरिति चेत्। मैवम्। उत्तरार्थं क्रियाग्रहणस्यावश्यकत्वात्।

Satishji's सूत्र-सूचिः

TBD.