TBD.
एकशब्दस्य सकृतित्ययम् आदेशो भवति सुच् च प्रत्ययः क्रियागणेन। कृत्वसुचो ऽपवादः। अभ्यावृत्तिस् त्विह न सम्भवति। सकृद् भुङ्क्ते। सकृदधीते। एकः पाकः इत्यत्र न भवति, अनभिधानात्।
TBD.
–
एकस्य सकृच्च। शेषपूरणेन सूत्रं व्याचष्टे–सकृदित्यादेशः स्यादिति। सकृद्भुङ्क्ते इति। एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च। अत्र एकशब्दः क्रियाविशेषणम्।एकत्वविशिष्टा भुजिक्रियेत्यर्थः। `स्वादु पचती'त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः। `एको भुङ्क्ते' इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत्। ननु `संयोगान्तस्ये'ति सुचो लोप इत्यनुपपन्नम्। `हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये'ति सुचो लोप इत्यनुपपन्नम्। `हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह–नतु हल्याङ्यबितीति। सिच इवेति। `अभैत्सी'त्यत्रि सिचो लोपनिवृत्तये `हल्ङ्या'वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः।
1554 एकस्य सकृच्च। अभ्यावृत्तिरिति न संबध्यते, एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वावृत्तेरसंभवात्। क्रियाग्रहणमिहार्थमावश्यकम्, अन्यथा `आ दशतः सङ्ख्या सङ्ख्येये वर्तते'इत्येको भुङ्क्ते इत्यत्रापि स्यादिति। इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः। `एकः पाक'इत्यत्र तु अनभिधानान्नेति काशिका। संयोगान्तस्येति। `हल्ङ्यादिना सुलोप'इति प्राचो ग्रन्थोऽयुक्त इत्याह—न त्विति। `सुतिसी'ति साहचर्याद्विभक्तय एव तत्र गृह्रन्त इथ्यभिप्रेत्याह —सिच इवेति।
TBD.