Table of Contents

<<5-4-17 —- 5-4-19>>

5-4-18 द्वित्रिचतुर्भ्यः सुच्

प्रथमावृत्तिः

TBD.

काशिका

द्वि त्रि चतुरित्येतेभ्यः सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचो ऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चत्रुभुक्तम्। चकारः स्वरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

द्वित्रिचतुभ्र्यः। क्रियाभ्यावृत्तिगणने इत्येव। सुचि चकार इत्, उकार उच्चारणार्थः। पूर्ववदव्ययत्वम्। त्रिरिति। भुङ्क्ते' इत्यनुषज्यते। रादिति। चतुर्शब्दात्सुचि चतुर्?स् इति स्थिते `रात्सस्ये'ति सकारस्य लोपे चतुरिति रूपमित्यर्थः। अत्र `भुङ्क्ते' इत्यनुषज्यते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.