Table of Contents

<<5-4-15 —- 5-4-17>>

5-4-16 विसारिणो मत्स्ये

प्रथमावृत्तिः

TBD.

काशिका

विसरति इति विसारी। विसारिन्शब्दात् स्वार्थे अण् प्रत्ययो भवति मत्स्ये ऽभिधेये। वैसारिणो मत्स्यः। मत्स्ये इति किम्? विसारी देवदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

विसारिणो मत्स्ये। `अणिनुणः' इति पूर्वसूत्रादण्णित्यनुवर्तते। तदाह–अण् स्यादिति। मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः। वैसारिण इति। इनण्यनपत्ये' इति प्रकृकतिभावाट्टिलोपो न।

तत्त्वबोधिनी

1552 विसारिणो। पूर्ववदिहापि णिनिः। हरदत्तस्तु—`सुप्यजातौ'इति णिनिरूपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽ\उfffद्स्मश्च अतएव निपातनाण्णिनिरित्याह। तदयुक्तम्। `स बभूवोपजीविनाम्', `अनुयायिवर्गः', `न वञ्चनीयाः प्रभावोऽनुजीविभि'रित्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यस्वीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात्। `अणिनुणः'इत्यतोऽनुवर्तनादाह—अण् स्यादिति। वैसारिण इति। `इनण्यनपत्ये'इति प्रकृतिभावः। सङ्ख्यायाः। अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमाह— अभ्यावृत्तिर्जन्मेति।

Satishji's सूत्र-सूचिः

TBD.