Table of Contents

<<5-4-151 —- 5-4-153>>

5-4-152 इनः स्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

इन्नन्ताद् बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये। बहवो दण्दिनः अस्यां शालायां बहुदण्दिका शाला। बहुच्छत्रिका। बहुस्वामिका नगरी। बहुवाग्मिका सभा। स्त्रियाम् इति किम्? बहुदण्डी राजा, बहुदण्डिकः। शेषद्विभाषा 5-4-154 इत्येतद् भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

881 इनः स्त्रियाम्। इन्नन्तात् पर् स्याद्बहुव्रीहावित्यर्थः। बहुदण्डिका नगरीति। दण्डोऽस्या अस्तीति दण्डी। `अत इनिठनौ' इति इनिः। बहवो दण्डिनो यस्यामिति विग्रहः। बहुवाग्ग्मिकेति। वागस्यास्तीति वाग्ग्मी। वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः। नकारादिकार उच्चारणार्थः। तद्धितत्वाद्गकारस्य नेत्संज्ञा, चकारस्य कुत्वम्, जश्त्वम्, वाग्ग्मीति रूपम्। बहवो वाग्ग्मिनो यस्यामिति विग्रहः। अत्रेन अनर्थकत्वेऽपि `अनिनस्मन्नि'ति वचनात्तदन्तस्याप्यत्र ग्रहणमिति भावः। बहुदण्डी बहुदण्डिको ग्राम इति। बहवो दण्डिनो यस्मिन्निति विग्रहः। अत्र समासस्याऽस्तरीलिङ्गत्वान्न नित्यः कविति भावः।

तत्त्वबोधिनी

763 बहुवाग्ग्मिकेति। `वाचो ग्मिनिः'।

Satishji's सूत्र-सूचिः

TBD.