Table of Contents

<<5-4-150 —- 5-4-152>>

5-4-151 उरःप्रभृतिभ्यः कप्

प्रथमावृत्तिः

TBD.

काशिका

उरःप्रभृत्यन्तात् बहुव्रीहेः कप्प्रत्ययो भवति। व्यूढम् उरः अस्य व्यूढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः। पुमाननड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्र इदं प्रयोजनम् एकवचनान्तानाम् एव ग्रहणम् इह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूतिति। तत्र शेषद् विभाषा 5-4-154 इति विकल्प एव भवति इति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः। उरस्। सर्पिस्। उपानः। पुमान्। अनड्वान्। नौः। पयः। लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

982

बालमनोरमा

880 उरःप्रभृतिभ्यः कप्। बहुव्रीहौ समासान्तस्तद्धित इति विशेषः। तद्धितत्वात् ककारस्य नेत्संज्ञा। व्यूढोरस्क इति। व्यूढं=विशालम् उर=वक्षो यस्येति विग्रहः। कप्। `सोऽपदादौ' इति सत्वम्। प्रियसर्पिष्क इति। प्रियं सर्पिर्यस्येति विग्रहः। कप्। `इणः ष' इति षत्वम्। ननु द्वौ पुमांसौ यस्य स द्विपुमानित्यनुपपन्नम्, उरः प्रभृतिषु पुमानिति पुंस्शब्दस्य पाठादित्यत आह–इहेति। गणेऽविभक्तिकानामेव पाठः। इह तु केषांचिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः। द्विपुंस्क इति। `संपुंकाना'मिति सः। अर्थान्नञ इति। गणसूत्रम्। नञ परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेः कप् स्यादिति तदर्थः। अनर्थकमिति। अविद्यमानोऽर्थो यस्येति विग्रहः। अपार्थम्-अपार्थकमिति। अपगतोऽर्थो यस्मादिति विग्रहः। अत्र नञ्?पूर्वकत्वान्न नित्यः कविति भावः।

तत्त्वबोधिनी

762 उरः प्रभृतिभ्यः कप्। उरः प्रभृत्यन्ताद्बहुब्राईहेः कप्स्याते। `समासार्थोत्तरपदान्ताः समासान्ताः'इति पक्षे तु बहुव्रीहेश्चरमावयवेभ्य उरःप्रभृतिभ्यः कबिति ब्याख्येयम्। तद्धितत्वात्कस्य नेत्वम्। व्यूढोरस्क इति। व्यूढं विशालमुरो यस्य सः। `सोऽपदादौ'इति विसर्जनीयस्य सः। प्रियसर्पिष्क इति। `इणः षः' इति विसर्गस्य षत्वम्। एकवचनान्तनीति। `नद्यृतश्चे'ति सिद्धे लक्षामीशब्दपाठस्त्विह एकवचनान्तलक्ष्मी शब्दावयवकबहुव्रीहेरेव नित्यं कप्, अन्यत्र `शेषा'दिति विकल्प एवेति नियमार्थः। तेन `अकृशमकृशलक्ष्मीश्चेतसा शंसितं सः'इति भारविप्रयोगः सिद्धः। अकृशा लक्ष्म्यो यस्येति विग्रहः। यत्तु प्राचोक्तं=`नद्यृतश्चे'ति कप्, बहुलक्ष्मीक इति। तदयुक्तम्। सङ्ख्यावाचिबहुशब्दस्यैकवचनान्तत्वाऽभावात्प्रकृतनियमेन वारितत्वात्। बह्वी अधिका लक्ष्मीर्यस्येति विग्रहे वैपुल्यवाचिन एकवचनान्तत्वसंभवेऽपि विशेषनविधेर्बलीयस्त्वेन `उरःप्रभृतिभ्यः कप्' इत्येव वक्तुमुचितत्वात्। यदा तु `नियमशास्त्राणां निषेधमुखेन प्रवृत्ति' रित्याश्रीयते तदा प्राचोक्तमपि सम्यगेवेति ज्ञेयम्। अर्थान्नञ इति। गणसूत्रमिदम्। अनर्थकेनापीति। कथं तर्हि `सुपथ#ई नगरी'ति हलन्तेषूक्तं, कपोऽत्र दुर्वारत्वात्। न च `न पूजनात्'इत्यनेन `ऋक्पूरब्धूः—-'इत्यस्यैव कपोऽपि निषेधः शङ्क्यः। षचः प्राचीनानामेव स निषेध इति वक्ष्यमाणत्वात्। कप्प्रत्ययस्य षच उत्तरत्वात्। सत्यम्। समासान्तविधेरनित्यत्वात्साधुरिति समाधेयम्। `युवोरनाकौ'इति सूत्रे सुपथीति भाष्याच्चेत्युक्तम्।

Satishji's सूत्र-सूचिः

TBD.