Table of Contents

<<5-4-149 —- 5-4-151>>

5-4-150 सुहृद्दुर्हृदौ मित्रामित्रयोः

प्रथमावृत्तिः

TBD.

काशिका

सुहृत् दुर्हृतिति निपात्यते यथासङ्ख्यं मित्रामित्रयोरभिधेययोः। सुशब्दात् परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात् परस्य। शोभनं हृदयम् अस्य सुहृत् मित्रम्। दुष्टं हृदयम् अस्य दुर्हृतमित्रम्। मित्रामित्रयोः इति किम्? सुहृदयः कारुणिकः। दुर्हृदयः चोरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

981 सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते. सुहृन्मित्रम्. दुर्हृदमित्रः..

बालमनोरमा

879 सुह्मद्दुह्र्मदौ। यथासङ्ख्यमभिप्रेत्योदाहरति–सुह्मन्मित्रमिति। सु शोभनं ह्मदयं यस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.