Table of Contents

<<5-4-12 —- 5-4-14>>

5-4-13 अनुगादिनष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

अनुगदति इति अनुगादि। अनुगादिन्शब्दात् स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अनुगादिनष्ठक्। `स्वार्थे' इति शेषः। `आमादयः प्राङ्भयटः' इत्युक्तेष्ठगादयो नित्या एव प्रत्ययाः। अनुगादीति। `सुप्यजातौ' इति णिनिः। प्रकृतिप्रदर्शनमिदम्। ठको नित्यत्वात्स एवेत्यस्वपदविग्रहप्रदर्शनम्। आनुगादिक इति। `नस्तद्धिते' इति टिलोपः। इह क्रमे `णचः स्त्रिया'मिति `अणिनुणः' इति च सूत्रद्वयं पठितं कृदधिकारे व्याख्यास्यते।

तत्त्वबोधिनी

1551 अनुगादिनः। प्रकृति रुआऊपप्रदर्शनपरं चैतन्न त्वयं केवलः प्रयोगार्हः, ठको नित्यत्वादिति हरदत्तः। `सुप्यजातौ'इति णिनिः।

Satishji's सूत्र-सूचिः

TBD.