Table of Contents

<<5-4-138 —- 5-4-140>>

5-4-139 कुम्भपदीषु च

प्रथमावृत्तिः

TBD.

काशिका

कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते। तत्र एवं सूत्रम् ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये यथा कुम्भपद्यादयः। सिध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः स्त्रियाम् एव, तत्र ङीप्प्रत्यये एव, न अन्यदा। कुम्भपदी। शतपदी। यच् च इह उपमानपूर्वं सङ्ख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। पादो ऽन्यतरस्याम् 4-1-8 इति विकओपो न भवति। कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पज्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

868 कुम्भपदीषु च। कुम्भपदीष्विति बहुवचननिर्देशाद्गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः। ङीप् चेति। `पादोऽन्यतरस्या'मिति विकल्पापवाद इति। भावः। स्त्रियामिति। कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः। कुम्भपदीति। कुम्भस्येव पादावस्येति विग्रहः। `पदास्य लोपोऽहस्त्यादिभ्यः' इति लोपे सिद्धे तदनुवादेन नित्यं ङीबर्थं वचनम्।

तत्त्वबोधिनी

756 कुम्भपदीषु च। बहुवचननिर्देशाद्गणपाठसामथ्र्याच्चाद्य्र्थावगतिरित्यभिप्रेत्याह– कुम्भपद्यादिष्विति। इह गणे–कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठ\उfffद्न्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह—स्त्रियामिति। यच्चेहोपमानपूर्वं संख्यापूर्वं च पठ\उfffद्ते तस्य सिद्धे लोपे नित्यङीबर्थं वचनं तेन `पादोऽन्यतरस्या'मिति विकल्पा न भवति।

Satishji's सूत्र-सूचिः

TBD.