Table of Contents

<<4-1-7 —- 4-1-9>>

4-1-8 पादो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

पादः इति कृतसमासान्तः पादशब्दो निर्दिश्यते। पादन्तात् प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप् प्रत्ययो भवति। द्विपात्, द्विपदी। त्रिपात्। त्रिपदी। चतुष्पाद्, चतुष्पदी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

451 पादो। कृतसमासान्त इति। अन्तलोपात्मके समासान्ते कृते परिशिष्टः पाच्छशब्द इह गृह्रत इत्यर्थः। तदन्तादिति। पाच्छब्दान्तादित्यर्थः। `पाद' इति पञ्चम्यन्तेन `प्रातिपदिका'दित्यधिकृतस्य विशेषणादिति भावः। ङीब्वा स्यादिति। `ऋन्नेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः। द्विपदीति। द्वौ पादौ यस्या इति बहुव्रीहिः। `सङ्ख्यासुपूर्वस्ये'ति पादशब्दान्तस्याऽकारस्य लोपः। ङीपि भत्वात् `पादः पत्'। द्विपदिति रूपम्। ङीबभावे तुद्विपादिति।

तत्त्वबोधिनी

406 द्विपादिति। द्वौ पादौ यस्या इति बहुव्रीहौ `बहुधीवरीति। 'बहवो धीवानो यस्यां नगर्या`मिति विग्रहः। पक्षे डाबिति। `डाबुभाभ्या'मिति सूत्रेण। तथाच द्विवचने `बहुधीवर्यौ'`बहुधीवानौ'`बहुधीवे'इति रुपत्रयं भवतीति भावः।

Satishji's सूत्र-सूचिः

TBD.