Table of Contents

<<5-4-139 —- 5-4-141>>

5-4-140 सङ्ख्यासुपूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः। द्वौ पादौ अस्य द्विपात्। त्रिपात्। शोभनौ पादौ अस्य सुपात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

978 पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ. द्विपात्. सुपात्..

बालमनोरमा

869 सङ्ख्यासुपूर्वस्य। शेषपूरणेन सूत्रं व्याचष्टे–पादस्येति। उपमानात्परत्वाऽभावादप्राप्तौ वचनम्। द्विपादिति। द्वौ पादावस्येति विग्रहः। सुपादिति। शोभनौ पादावस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.