TBD.
उपमानातित्येव। उपमानातिहस्त्यादिवर्जितात् परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे। स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते। व्याघ्रस्य इव पादौ अस्य व्यघ्रपात्। संहपात्। अहस्त्यादिभ्यः इति किम्? हस्तिपादः। कटोलपादः। हस्तिन्। कटोल। गण्डोल। गण्डोलक। महिला। दासी। गणिका। कुसूल।
TBD.
977 हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ. व्याघ्रस्येव पादावस्य व्याघ्रपात्. अहस्त्यादिभ्यः किम्? हस्तिपादः. कुसूलपादः..
867 पादस्य लोपः। `अहस्त्यादिभ्य' इति च्छेदः। उपमानादित्यनुवर्तते। तदाह– हस्त्यादिवर्जितादिति। `आदेः परस्ये'त्यप्रवृत्तये आह–समासान्तो बहुव्रीहाविति। शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम्। अन्यताऽनुक्तसमासान्तत्वात्कप्प्रसज्येत। नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह–स्थानीति। व्याघ्रस्येवेति। फलितार्थकथनमिदम्। व्याघ्रपादाविव पादावस्येति विग्रहः। `सप्तम्युपमानपूर्वपदस्ये'ति समासः।
755 पादस्य। यद्ययं लोपः समासान्तो न स्यात् `आदेः परस्ये'त्यादेः स्यात्। शैषैकः कप्?च प्रसज्येत, `शेषद्विभाषा'इत्यत्र समासान्तापेक्षस्य शेषस्याश्रयणात्। अत आह- -समासान्त इति। कथं पुनरभावो भावस्यावयवः स्यात्तत्राह–स्थानिद्वरेणेति। वचनबलादौपचारिकमवयवत्वं गृह्रत इति भावः।
TBD.