Table of Contents

<<5-4-118 —- 5-4-120>>

5-4-119 उपसर्गाच् च

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गात् परो यो नासिकाशब्दः तदन्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश्च न समापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिका अस्य उन्नसः। प्रनसः। उपसर्गाद् बहुलम् 8-4-28 इति णत्वम्। वेर्ग्रो वक्तव्यः। विगता नासिका अस्य विग्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

849 उपसर्गाच्च। नन्वञ्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह– असंज्ञार्थमिदमिति। उपसर्गादनोत्पर इति सूत्रमिति। तत्र हि `नश्च धातुस्थो'इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते। `रषाभ्यां नो णः' इत्यनुवर्तते। उपसर्गस्थाद्गेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः। खण्डपदस्थत्वादप्राप्ताविदं सूत्रम्। `प्र ण आयूँषि तारिषत्' इत्याद्युदाहरणम्। अनोत्परः किम् ?। `प्र नो मुञ्चतम्'। अत्र ओत्परकत्वान्न णत्वमिति स्थितिः। तद्भङ्क्त्वेति।

तत्त्वबोधिनी

741 उपसर्गाच्च उपसर्गग्रहणं प्रादीनामुपलक्षणं, नासिकाशब्दस्याऽक्रियार्थत्वेन तं प्रत्युपसर्गत्वाऽयोगात्। न च क्रियायोगाभावेऽप्युपसर्गत्वमस्त्विति शङ्क्यं, सावके[इति]अधिसावकमित्यव्ययीभावे `उपसर्गात्सुनोती'ति सस्य षत्वप्रसङ्गात्। तदाह– प्रादेरिति।

Satishji's सूत्र-सूचिः

TBD.