Table of Contents

<<5-4-117 —- 5-4-119>>

5-4-118 अञ् नासिकायाः संज्ञायां नसं च अस्थूलात्

प्रथमावृत्तिः

TBD.

काशिका

नासिकान्तात् बहुव्रीहेः अच् प्रत्ययो भवति, नासिकाशब्दश्च न समादेशम् आपद्यते। अस्थूलातिति नासिकाविशेषणं, न चेत् स्थूलशब्दात् परा नासिका भवति इति। संज्ञायाम् इति समुदायोपाधिः। द्रुरिव नासिका अस्य द्रुणसः। वाद्ग्रीणसः। पूर्वपदात् संज्ञायाम् अगः 8-4-3 इति णत्वम्। गोनसः। संज्ञायाम् इति किम्? तुङ्गनासिकः। अस्थूलातिति किम्? स्थूलनासिको वराहः। खुरखराभ्यां नस् वक्तव्यः। खुरणाः। खरणाः। पक्षे ऽच्प्रत्ययो ऽपि इष्यते। खुरणसः। खरणसः। शितिनाः, अहिनाः, अर्चनाः इति निगम इष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

847 अञ्नासिकायाः। `अ'जिति च्छेदः। नासिकाया' इत्यस्य बहुव्रीहेर्विशेषणणत्वात्तदन्तविदिमभिप्रेत्याह–नासिकान्तादिति।नसमित्यनन्तरं `प्राप्नोती'त्यध्याहार्यम्। उपस्तितत्वान्नासिकाशब्द इति लभ्यते। तदाह– नासिकाशब्दश्च नसं प्राप्नोतीति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.