Table of Contents

<<5-4-119 —- 5-4-121>>

5-4-120 सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रएणीपदाजपदप्रोष्ठपदाः

प्रथमावृत्तिः

TBD.

काशिका

सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते। अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम्। शोभनं प्रातरस्य सुप्रातः। शोभनं श्वो ऽस्य सुश्वः। शोभनं दिवा अस्य सुदिवः। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रो ऽश्रयो ऽस्य चतुरश्रः। एण्या इव पादौ अस्य एणीपदः। अजस्य इव पादावस्य अजपदः। प्रोष्थो गोः, तस्य इव पादावय प्रोष्ठपदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

851 सुप्रात। सुप्रात इति। अच्प्रत्ययः।`अव्ययानां भमात्रे टिलोपः'। सु\उfffदा इति। अच्। पूर्ववट्टिलोपः। सुदिव इति। शोभनं दिवा यस्येति विग्रहः। `दिवे'त्याकारान्तमव्ययम्। `अव्ययानां भमात्रे टिलोप' इति टिलोपः। शारिकुक्ष इति। `शारिः–पक्षिविशेषः। अचि `यस्येति चे'तीकारलोपः। चतरुआओऽश्रय इति। कोणा इत्यर्थः। अचि `यस्येति चे'तीकारलोपः। एण्या इवेति। एणी-मृगी। अजपद इति। अजः-छागः, तस्येव पादावस्येति विग्रहः। एणीपदादिषु अच् निपातनात्। `पादः पत्'।

तत्त्वबोधिनी

743 शोभनं प्रातस्स्येति। अधिकरणशक्तिप्रधानस्य सामानाधिकरण्याऽसम्भवात्प्रातः शब्देन प्रातस्तनं कर्म लक्ष्यत इत्याहुः। `प्रातःकल्प'मित्यत्रेव प्रातःशब्दो वृत्तिविषये शक्तिमत्पर इति सामानाधिकरण्यानुपपत्तिरित्यन्ये। एणीपदादिषु निपातनात्पद्भावः।

Satishji's सूत्र-सूचिः

TBD.