TBD.
स्वाङ्गवाची यः सक्थिशब्दः अक्षिशब्दश्च तदन्तात् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयम् अर्थो ऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहौ इति किम्? परमसक्थिः। परमाक्षिः। सक्थ्यक्ष्णोः इति किम्? दीर्घजानुः। सुबाहुः। स्वाङ्गातिति किम्? दीर्घस्क्थि शकटम् स्थुलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम्। चक्रसक्थी स्त्री। दीर्घसक्थी स्त्री। सक्थं चाक्रान्तात् 6-2-198 इति विभाषयोत्तरपदस्य अन्तोदात्तता विधीयते। तत्र यस्मिन् पक्षे न अस्त्युदात्तत्वं तत्र ङीपि सति उदात्तनिवृत्तिस्वरस्य अभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्र उदात्तः सिद्धो भवति। बहुव्रीहिग्रहणम् आ पादपरिसमाप्तेरनुवर्तते।
TBD.
974 स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात्. दीर्घसक्थः. जलजाक्षी. स्वाङ्गात्किम्? दीर्घसक्थि शकटम्. स्थूलाक्षा वेणुयष्टिः. अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच्..
843 बहुव्रीहौ। व्यत्ययेनेति। `सक्थ्यक्ष्णो'रिति षष्ठी पञ्चम्यर्थे, `व्यत्ययो बहुल'मिति छन्दसिवचनादित्यर्थः। `छन्दोवत्सूत्राणि भवन्ती'ति भाष्यम्। `बहुव्रीहा'विति सप्तमी व्यत्ययेन पञ्चम्यर्थे। तदाह–स्वाङ्गवाचीति। सक्थ्यक्ष्यन्तादिति। बहुव्रीहिविशेषणत्वात्तदन्तविधिरिति भावः। षच्स्यादिति। समासान्तस्तद्धितश्चेति ज्ञेयम्। दीर्घसक्थ इति। `षच्'। यस्येति चे'ति लोपः। जलजाक्षीति। जलजे इव अक्षिणी यस्या इति विग्रहः। समासे षचि `नस्तद्धिते' इति टिलोपः। षित्त्वान्ङीप्। षित्त्वं ङीषर्थमिति भावः। दीर्घसक्थि शकटमिति। दीर्घे सक्थिनी=सक्थिसदृशावोषादण्डौ यस्येति विग्रहः। अत्र सक्थिशब्दार्थयोरीषादण्डयोः `अद्रवं मूर्तिमत्स्वाङ्ग'मित्यादिस्वाङ्गलक्षणाऽभावान्न षजिति भावः। अत्र `स्वाङ्गा'दित्यस्य प्रत्युदाहरणान्तरमाह–स्थूलाक्षेति। स्थूलानि अक्षाणि=पर्वग्रन्थयो यस्या इति बहुव्रीहिः। अस्वाङ्गत्वादिह न षजिति भावः। ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आह–अक्ष्णोऽदर्शनादित्यजिति। षचि तु षित्त्वलक्षणङीष्स्यादिति भावः।
739 व्यत्ययेन षष्ठीति। एतच्चोपलक्षणं, सप्तम्यपि व्यत्ययेनैव। तदाह— स्वाङ्गवाचीत्यादि। `अद्रवं मूर्तिम'दित्यादिलक्षणलक्षितं स्वाङ्गं गृह्रते। तेन `शोभनाक्षी प्रतिमे'त्यादिप्रयोगो निर्बाध एवेत्याहुः। षच्स्यादिति। षो ङीषर्थः। चस्तु `चितः' इत्यन्तोदात्तार्थः। तेनात्र पूर्वपजप्रकृतिस्वरो न भवति। स्थूलाक्षेति। स्थूलानि अक्षीण्=पर्वाङ्कुराणि यस्याः सा। प्राचा तु स्थूलाक्षिरिक्षुरिति प्रत्युदाह्मतम्। तन्न। `अक्षाणोऽदर्शना'दित्यचो दुर्वारत्वात्। यदपि समासान्तविधेरनित्यत्वात्स न कृत इति कैश्चिव्द्याख्यातं, तदसारम्। एवंहि षजपि तथैव न भविष्यतीति प्रत्युदाहरणस्याऽसङ्गतिप्रसङ्गात्।
TBD.