TBD.
अङ्गुलिशब्दान्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः दारुणि समासार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलं दारु। अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठम् उच्यते। यस्य तु द्वे अङ्गुली प्रमाणम् दारुणः तत्र तद्धितार्थ इति समासे इऋते तत्प्रुषस्य अङ्गुलेः इत्यचा भवितव्यम्। दारुणि इति किम्? पञ्चाङ्गुलिर् हस्तः।
TBD.
–
844 अङ्गुलेर्दारुणि। बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात्तदन्तविधिरित्यभिप्रेत्याह–अङ्गुल्यन्तादिति। पञ्चाङ्गुलं दार्विति। षचि `यस्येति चे'तीकारलोपः। ननु दारुणः कथमङ्गुलय इत्यत आह– अङ्गुलिसदृशावयवमिति। अङ्गुलिसदृशा अवयवा यस्येति विग्रहः। धान्येति कुसूलादिस्थितधान्याद्याकर्षकमिति यावत्। उच्यत इति। `लक्षणये'ति शेषः। द्व्यङ्गुलेति। `प्रमाणे द्वयस'जिति विहितस्य मात्रचो `द्विगोर्नित्य'मिति लुक्। अबहुव्रीहित्वादत्र न षजिति भावः। तर्हि `द्व्यङ्गुलि'रिति स्यादित्यत आह– तद्धितार्थे इति। षचि तु ङीष् स्यादिति भावः।
740 अङ्गुलेति। मात्रचो `द्विगोर्नित्यम्' इति लुक्। नेतृशब्दस्तदन्ताब्दहुव्रीहेरित्यर्थः। मृगनेत्रा इति। मृगः–मृगशीर्षनक्षत्रम्। चन्द्रो नेता यस्य मृगनक्षत्रस्य `चन्द्रनेता मृग'इत्यत्र तु न भवति, इह हि नेतृशब्दान्तो बहुव्रीहिर्नक्षत्रे वर्तते न तु नेतृशब्द इति। नस्। खुराखराभ्यामिति। `नासिकायाः'इति वर्तते। केवलादेशवचनं प्रत्ययनिवृत्त्यर्थम्। खुरणा इति। `अत्वसन्तस्ये'ति दीर्घः।
TBD.