Table of Contents

<<5-4-111 —- 5-4-113>>

5-4-112 गिरेश् च

प्रथमावृत्तिः

TBD.

काशिका

गिरिशब्दान्तातव्ययीभावाट् टच् प्रत्ययो भवति सेनकस्य आचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पो ऽनुवर्तते एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

818 गिरेश्च सेनकस्य। सेनको नामाचार्यः। पूजार्थमिति। अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः। उपगिरमिति। गिरेः समीपमित्यर्थः। टचि `यस्येति चे'तीकारलोपः। अम्भावः। इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र `झयः' इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित्। \र्\निति बालमनोरमायामव्ययीभावः।

तत्त्वबोधिनी

718 पूजार्थमिति। अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः।

Satishji's सूत्र-सूचिः

TBD.