Table of Contents

<<5-4-111 —- 5-4-113>>

5-4-112 गिरेश् च

प्रथमावृत्तिः

TBD.

काशिका

गिरिशब्दान्तातव्ययीभावाट् टच् प्रत्ययो भवति सेनकस्य आचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पो ऽनुवर्तते एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

818 गिरेश्च सेनकस्य। सेनको नामाचार्यः। पूजार्थमिति। अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः। उपगिरमिति। गिरेः समीपमित्यर्थः। टचि `यस्येति चे'तीकारलोपः। अम्भावः। इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र `झयः' इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित्। \र्\निति बालमनोरमायामव्ययीभावः।

तत्त्वबोधिनी

718 पूजार्थमिति। अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः।

Satishji's सूत्र-सूचिः

TBD.