TBD.
तिङश्च 5-3-56 इत्येव। अव्ययानाम् सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच् प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्य अपवादः। उच्चकैः। नीचकैः। शनकैः। सर्वनाम्नः खल्वपि सर्वके। विश्वके। उभयके। प्रातिपदिकात्, सुपः इति द्वयम् अपि इह अनुवर्तते। तत्र अभिधानतो व्यवस्था भवति। क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य। त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य। अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः। स च मित्त्वादन्त्यातचः परो भवति। तुष्णीकाम् आस्ते। तूष्णीकां तिष्ठति। शीले को मलोपश्च वक्तव्यः। तूष्णींशीलः तूष्णीकः। तिङश्च 5-3-56 इति प्रकृतमत्र सम्बध्यते। पचतकि। जल्पतकि।
TBD.
1236 कापवादः. तिङश्चेत्यनुवर्तते..
अव्ययसर्वनाम्नाम्। अनुवर्तत इति। `मण्डूकप्लुत्ये'ति शेषः। अव्ययसर्वनाम्नां तिङन्तानां च टेः प्रागकच्प्रत्ययः स्यादित्यर्थः। अकचि ककारादकार उच्चारणार्थः। चकार इत्। ककारान्तः प्रत्ययः। अयमपि प्रागिवादधिकारः।
1514 अव्ययसर्वनाम्नाम्। अनुवर्तते इति। मण्डूकप्लुत्येति बावः। `ङ्याप्?प्रातिपदिकात्' `सुपः'इति चानुवर्तत एव।
TBD.