TBD.
ककारान्तस्य प्रातिपदिकस्य अकच्सन्नियोगेन दकारादेशो भवति। चकारः सन्नियोगार्थः। सामर्थ्याच् चाव्ययग्रहणम् अनुवर्तते, न सर्वनामग्रहणम्। ककारान्तस्य सर्वनाम्नो ऽसम्भवात्। धिक् धकित्। हिरुक् हिरकुत्। पृथक् पृथकत्।
TBD.
–
कस्य च दः। पूर्वसूत्रे `अव्ययसर्वनाम्ना'मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते। `कस्ये'त्यत्र ककारादकार उच्चारणार्थः। ककारस्येति विवक्षितम्। तेनाऽव्ययस्य विशेषणात्तदन्तविधिः। तदाह– कान्ताव्ययस्येति। अकच्चेति। चकारेण तदनुकर्षादिति भावः। एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति। अयमपि प्रागिवादधिकारः।
1515 कस्य च दः। कान्ताव्ययस्येति। सर्वनामग्रहणं तिङ्ग्रहणं च नेह संबध्यते, तयोः कान्तत्वाऽसंभवात्। न चाऽधोक् अधोगित्यादौ संभवोऽस्तीति वाच्यं , कत्वस्याऽसिद्धत्वात्। यद्यपि शक्नोतेर्यङ्लुकि लङि तिपि `अशाशक्'इति संभवति, तथापि यङ्लुकोऽसार्वत्रिकत्वान्नेदृसं लक्ष्यमस्ति। छन्दसि क्वचिल्लक्ष्यसद्भावेऽपि `सर्वे विधाश्छन्दसि वा विधीयन्ते'इति दत्वविधिर्न प्रवर्तत इति भावः।\र्\नोकारसकारभकारादौ सुपि सर्वनाम्नष्टे प्रागकच्। ओकारसकारेति। अकज्विधौ सुपोऽप्यनुवृत्त्या सर्वनाम्ना सुपा च ठेर्विशेषणे कामचारादव्यवस्थाप्रसङ्गे भाष्यकारवचनाव्द्यवस्था श्रीयते। `ओकारसकारे'त्यादिसङ्कोचश्च युष्मदस्मन्मात्रविषयकः, तथैव भाष्येउदाह्मतत्वात्। अन्येषां त्विवशेषेण प्रातिपदिकस्यैव टेः प्रागकच् न सुबन्तस्य। तेन सर्वकेण इमकेन भवकन्तमित्यादि सिध्यति। त्वयका मयकेति। नन्वत्र सुपः प्रागकचि कृते प्रत्यये परतस्त्वमादेशयोः सतोरपि `योऽची'ति यत्वं न स्याद्विभक्तिपरत्वाऽभावादिति चेत्। मैवम्। अकृतव्यूहपरिभाषाया अनित्यतामाश्रित्याऽकचः पूर्वमेव यत्वविधानात्?। एवं युवकामावकामित्यत्राप्यकचः पूर्वमेव युवावादेशाविति बोध्यम्। मलीपश्च। शीले क इति। शीलं स्वभावो नियमश्च। तूष्णीक इति। `केऽणः'इति ह्यस्वस्तु भाष्यकार प्रयोगात् `न कपी'त्यत्र `ने'ति योगविभागाद्वा न भवतीत्याहुः। अकचो द्वितीय अकार उच्चारणार्थ इति ध्वनयन्नुदाहरति—पचतकीत्यादि।
TBD.