Table of Contents

<<5-3-60 —- 5-3-62>>

5-3-61 ज्य च

प्रथमावृत्तिः

TBD.

काशिका

प्रशस्य शब्दस्य ज्य इत्ययम् आदेशो भवति अजाद्योः प्रत्यययोः परतः। सर्वे इमे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्यः ज्येष्ठः। उभाविमौ प्रशस्यौ, अयम् अनयोरतिशयेन प्रशस्यः ज्यायान्। अयमस्मात् ज्यायान्। ज्यादादीयसः 6-4-160 इत्याकारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1228 प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः. ज्येष्ठः..

बालमनोरमा

ज्य च। `ज्ये'ति लुप्तप्रथमाकम्। प्रशस्यस्येति, अजादी इति चानुवर्तते। तदाह– प्रशस्यस्येति। ज्येष्ठ इति। `प्रकृत्यैका'जिति प्रकृतिभावान्न टिलोपः। #ईयसु निज्यादेशे `ज्येया'निति प्राप्ते–।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.