Table of Contents

<<5-3-59 —- 5-3-61>>

5-3-60 प्रशस्यस्य श्रः

प्रथमावृत्तिः

TBD.

काशिका

प्रशस्य शब्दस्य श्र इत्ययम् आदेशे भवति अजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिविपरिणम्यते। ननु च प्रशस्य शब्दस्य अगुणवचनत्वादजादी न सम्भवतः? एवं तर्हि आदेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेव इति। एवम् उत्तरेष्वपि योगेषु विज्ञेयम्। सर्वे इमे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयम् अनयोरतिशयेन प्रशस्यः श्रेयान्। अयम् अस्मात् श्रेयान्। प्रकृत्यौ काचिति प्रकृतिभावत् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1226 अस्य श्रादेशः स्यादजाद्योः परतः..

बालमनोरमा

प्रशस्यस्य श्रः। अजाद्योरिति। इष्ठन्नीयसुनोरित्यर्थः। `अजादी' इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः। प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ। श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते–।

तत्त्वबोधिनी

1505 प्रशस्यस्य श्रः। `अजादी'इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह— अजाद्योरिति। अजाद्योः किम्?। प्रशस्यतरः। प्रशस्यतमः।

Satishji's सूत्र-सूचिः

TBD.