TBD.
वृद्धशब्दस्य च ज्य इत्ययम् आदेशो भवत्यजाद्योः प्रत्यययोः परतः। तयोश्च सत्त्वं नियमाभावेन पूर्ववज् ज्ञाप्यते। सर्वे इमे वृद्धाः, अयम् एषाम् अतिशयेन वृद्धः ज्येष्ठः। उभाविमौ वृद्धौ, अयम् अनयोरतिशयेन वृद्धः ज्यायान्। अयम् अस्माज् ज्यायान्। प्रियस्थिर इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते। वचनसामर्थ्यात् पक्षे सो ऽपि भवति। वर्षिष्ठः। वर्षीयान्।
TBD.
–
वृद्धस्य च। शेषपूरणेन सूत्रं व्याचष्टे–ज्यादेशः स्यादजाद्योरिति। इष्ठन्नीयसुनोरित्यर्थः। ज्येष्ठ इति। अयमनयोरति शयेन वृद्ध इत्यर्थः।
1507 वृद्धस्य च। स्वरूपस्येह ग्रहणं, न तु `वृद्धिर्यस्याचामादि'रिति पारिभाषिकस्य, व्याख्यानात्। अस्य `प्रियस्थिरे'त्यादिना वर्षादेसोऽपि पक्षे भवति। न च तस्येमनिचि सावकाशता शङ्क्या, वृद्धशब्दादिमनिचोऽभावात्। यदि तु `वृद्धस्य वर्षिश्चे'ति सूत्रमिहैव क्रियेत तदा द्विर्वृद्धग्रहणं न कर्तव्यमिति लाघवं भवतीत्याहुः।
TBD.