TBD.
प्राग्दिशः इत्येव। एतदः प्राग्दिशीये परतः अशित्ययम् आदेशो भवति। शकारः सर्वादेशार्थः। अतः। अत्र। एतदः इति योगविभागः कर्तव्यः। एतदो रथोः परत एत इतित्येतावादेशौ भवतः। एतर्हि। इत्थम् रेफादेः अनद्यतने र्हिलन्यतरस्याम् 5-3-21 इति विद्यत एव। थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः।
TBD.
1217 एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये. एतस्मिन् काले एतर्हि..
1926 एतदोऽन्। प्राग्दिशीये प्रत्यये परे एतच्छब्दस्य अन्स्यादित्यर्थः प्रतीयते, एवं सति एतच्छब्दस्य अनेव स्यात्, नत्वेतेतौ। तत्राह–योगविभाग इति। एतद इति। प्रथमसूत्रमिदम्। तस्य शेषपूरणम् `एतेतौ रथोः' इति। एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः। एतर्हि, इत्थमित्युदाहरणम्। अन्निति। द्वितीयं सूत्रम्।एतद इत्येवेति रथोरिति तु नानुवर्तते इति भावः। तथाच `एतद' इत्यस्य अन्स्यात्प्राग्दिशीये परे इत्यर्थः फलति। अतः, अत्र इत्युदाहरणम्। ननु अनादेशे नकारस्य इत्संज्ञायामकारोऽन्तादेशः स्यादित्यत आह–अनेकाल्त्वादिति। नकारस्य प्रयोजनाऽभावान्नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः। तर्हि `अत' इत्यादौ नकारस्य श्रवणं स्यादित्यत आह–नलोप इति।
1472 एतदोऽन्। भाष्यारूढोऽयं पाठः। वृत्तिकारस्तु `एतदो'ऽशिति पठित्वा शकारः सर्वादेशार्थ इत्याह। अनिति। प्राग्दिशीये परे अन्स्यात्। अनेकाल्वादिति। नित्करणस्य प्रयोजनं नास्ति, प्रत्ययनित्त्वस्यैव स्वरार्थत्वादिति भावः।
TBD.