Table of Contents

<<5-3-5 —- 5-3-7>>

5-3-6 सर्वस्य सो ऽन्यतरस्यां दि

प्रथमावृत्तिः

TBD.

काशिका

सर्वस्य स इत्ययम् आदेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतो ऽन्यतरस्याम्। सर्वदा। सदा। प्राग्दिशीये इत्येव, सर्वं ददाति इति सर्वदा ब्राह्मणी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1213 दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्. सर्वस्मिन् काले सदा सर्वदा. अन्यदा. कदा. यदा. तदा. काले किम्? सर्वत्र देशे..

बालमनोरमा

1927 सर्वस्य सो। `दि' इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम्। `यस्मिन्विधि'रिति तदादिविधिः। तदाह–प्राग्दिशीये दकाराविति। सदा इत्युदाहरणम्।

तत्त्वबोधिनी

819 आत्मनापञ्चम इति। तृतीयेति योगविभागात्समासः। इह प्रकृत्यादित्वात्प्रथमार्थे तृतीयेत्येके। आत्मना कृतः पञ्चमः इति करोतिक्रियापेक्षा सेत्यन्ये। इति वक्तव्यम्। बहुव्रीहर्बोध्य इति। एकस्याप्यौपाधिकभेदं परिकल्प्य वर्तिपदार्थत्वमन्यपदार्थत्वं च विवक्षणीयमिति भावः।

Satishji's सूत्र-सूचिः

TBD.