Table of Contents

<<5-3-20 —- 5-3-22>>

5-3-21 अनद्यतने र्हिलन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति न स्वर्यते। सामान्येन विधानम्। किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः अनद्यतने कालविशेषे वर्तमानेभ्यः र्हिल् प्रत्ययो भवत्यन्तरस्याम्। कर्हि, कदा। यर्हि, यदा। तर्हि, तदा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1216 कर्हि, कदा. यर्हि, यदा. तर्हि, तदा..

बालमनोरमा

1944 अनद्यतने र्हिल्। अनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यः र्हिल्प्रत्ययो वा स्यादित्यर्थः। पक्षे दाप्रत्ययः। एतर्हीति। एतच्छब्दात् र्हिल्। `एतद' इति योगविभागाद्रेफादौ एतादेशः।

तत्त्वबोधिनी

1480 एतस्मिन्काले एतर्हीति। `एतदः'इति योगविबागाद्रेफादावेतादेशः।

Satishji's सूत्र-सूचिः

TBD.