TBD.
रेफथकारादौ प्राग्दिशीये प्रत्यये परतः इदमः एतैतौ आदेशौ भवतः। इशो ऽपवादः। रेफे ऽकार उच्चारणार्थः। इदमो र्हिल् 5-3-16) एतर्हि। इदमस् थमुः (*5,3.24 इत्थम्।
TBD.
1215 इदम्शब्दस्य एत इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे. अस्मिन् काले एतर्हि. काले किम्? इह देशे..
1925 एतेतौ रथोः। `इदम' इत्यनुवर्तते। एतश्च इच्चेति द्वन्द्वात्प्रथमाद्विवचनम्। रश्च थ् च तयोरिति द्वन्द्वः। रेफादकार उच्चारणार्थः। रेफाथकाराभ्यां प्राग्दिशीयं प्रकरणलभ्यं विशेष्यते। `यस्मिन्विधि'रिति तदादिविधिः। तदाह–इदंशब्दस्येत्यादिना। तत्र रेफादौ परे एतः, थादौ तु इदिति यथासङ्ख्यं बोध्यम्। एतर्हि। इत्थम्।
–
TBD.