Table of Contents

<<5-2-55 —- 5-2-57>>

5-2-56 विंशत्यादिभ्यस् तमडन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

विंशत्यादिभ्यः परस्य डटः तमडागमो भवत्यन्यतरसयाम्। पूरणाधिकारात् डट्प्रत्यय आगमी विज्ञायते। विंशतेः पूरणः विंशतितमः, विंशः। एकविंशतितमः, एकविंशः। त्रिविंशतितमः, त्रिविंशः। त्रिंशत्तमः, त्रिंशः। एकत्रिंशत्तमः, एकत्रिंशः। विंशत्यादयो लौकिकाः सङ्ख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः। तद्ग्रहणे ह्येकविंशतिप्रभुऋतिभ्यो न स्यात्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति षष्ट्यादेश्च असङ्ख्यादेः 5-2-58 इति पर्युदासोयुज्यत एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1832 विंशत्यादिभ्यः। तमटि टकार इत्। मकारादकार उच्चारणार्थः। अत्र `पङ्क्तिविंशती'ति सूत्रानुक्रान्ता एव विंशत्यादयो गृह्रन्ते नतु लोकप्रसिद्धा एकविशत्यादयोऽपि, विप्रकर्षादिति कैयटः। एकविंशतितम' इत्यत्र तु तदन्तविधिना तमडित्यग्रे वक्ष्यते।

तत्त्वबोधिनी

1414 विंशत्यादिभ्यः। इह प्रत्यासत्त्या `पङ्क्ती'त्यादिसूत्रे निपातिता विंशत्यादयो गृह्रन्ते, न लोकप्रसिद्धाः, विप्रकृष्टत्वादिति। भाष्यमतम्। वृत्तिकृता तु विंशत्यादयो लौकिका एव सङ्ख्याशब्द गृह्रन्तं, न पङ्क्त्यदिसूत्रनिर्दिष्टाः, तद्ग्रहणं ह्रेकविंशतिप्रभृतिभ्यो न स्यात्, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। एवं च सति `षष्ठ\उfffदादेश्चाऽसङ्ख्यादे'रिति पर्युदासो युज्यत एवेत्युक्तम्। एकविंशतितम इति। यद्यपि भाष्यमते तदन्तविधिर्दुर्लभस्तथापि `षष्ट\उfffदादेशश्चे'ति सूत्रे सङ्ख्यादिपर्युदासो ज्ञापयति—`इह प्रकरणे तदन्तानामपि ग्रहण'मिति। एवं च सति एकन्नविंशतेः पूरण एकान्नविंशतितम इत्यपि सिध्यति।`लौकिकानां ग्रहण'मिति वृत्तिमते ति नैतत्सिध्येत्। विंशतिसंख्यातः प्राग्भावित्वादस्याः संख्यायाः। एतच्च कैयटहरदत्तग्रन्थयोः स्पष्टम्। ननु `अनारम्भो वा प्रतिपदिकविज्ञानाद्यथा सहरुआआदिषु' इति वदता कात्यायनेन पङ्क्त्यादिसूत्रस्य प्रत्याख्यातत्वा `त्तत्सूत्रे'निपातिता विंशत्यादयो गृह्रन्ते'इति भाष्यमतमयुक्तमिति चेदत्राहुः—यद्यपि प्रत्याख्यातं तथापीहार्थमावश्यकं तत्। अतएव तत्र भाष्यकृता `नाऽसूया कर्तव्या यत्रानुगमः क्रियते'इत्युक्तम्। अतः कात्यायनोक्तप्रत्याख्यानं नादर्तव्यमिति। शततम इति। यद्यपीदं `षष्ट\उfffदादेश्चे'त्युत्तरसूत्रेणैव सिध्यति, तथापि संख्याद्यर्थ `नित्यं शतदी'त्यावश्यकमिति ध्वनयन्नुदाहरति—एकशततम इति। मासादेरिति। संख्यावाचित्वाऽभावेऽपीति भावः।

Satishji's सूत्र-सूचिः

TBD.