TBD.
षष्ट्यादेः सङ्ख्याशब्दादसङ्ख्यादेः परस्य डटो नित्यं तमडागमः भवति। विंशत्यादिभ्यः इति विकल्पेन प्राप्ते नित्यार्थम्। षष्टितमः। सप्ततितमः। असंख्यादेः इति किम्? एकषष्टः, एकषष्टितमः। एकसप्ततः, एकसप्ततितमः।
TBD.
–
1834 षष्ठ\उfffदादेश्चासह्ख्यादेः। सङ्ख्यापूर्वपदात्पष्ट\उfffदादेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। विंशत्यादिभ्यः' इति विकल्पस्याऽपवादः। एकषष्टः एकषष्टितम इति। सङ्ख्यादित्वान्नित्यस तमटोऽभावे `विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः। तमडभावे डटि `यस्येति चे'ति इकारलोपे `एकषष्ट' इति रूपम्। ननु केवलसात्षष्ट\उfffदादेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपि `ग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति। तेन `विंशत्यादिभ्यः' इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम्। एवंच `एकान्नविंशतितमः' इत्यपि सिद्धम्।
1415 षष्ट\उfffद्देश्चेति। `विशत्यादिभ्यः'इति विकल्पे प्राप्ते नित्यार्थोऽमारम्भः। सङ्ख्यादेस्त्विति। एतच्च प्राक्शताब्दोध्यम्, `नित्यं शतादी'त्युक्तत्वात्। मतौ छः। मत्वर्थ इति। मतोर्विषय इत्यर्थः। तेन `त'दिति प्रथमा समर्थविभक्तिः, `अस्याऽस्मि'न्निति प्रत्ययार्थश्चेह लभ्यते।
TBD.