Table of Contents

<<5-2-54 —- 5-2-56>>

5-2-55 त्रेः सम्प्रसारणं च

प्रथमावृत्तिः

TBD.

काशिका

त्रिशब्दात् तीयः प्रत्ययः भवति तस्य पूरणे इत्येतद् विषये। डटो ऽपवादः। तत्संनियोगेन त्रेः संप्रसारणं च भवति। त्रयाणाम् पूरणः तृतीयः। हलः 6-4-2. इति संप्रसारणस्य दीर्घत्वं न भवति। अणः इति तत्र अनुवर्तते ढ्रलोपे इत्यतः। पूर्वेण च णकारेण अण्ग्रहणं।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1183 तृतीयः..

बालमनोरमा

1831 तृतीय इति। त्रयाणां पूरण इति विग्रहः। तीयप्रत्यये सति रेफस्य सम्प्रसारणमृकारः। `सम्प्रसारयणाच्चे'ति पूर्वरूपम्। `हलः' इति दीर्घस्तु न भवति, `ढ्रलोपे' इत्यतोऽण इत्यनुवृत्तेः।

तत्त्वबोधिनी

1413 तृतीय इति। रेफस्य ऋकारः संप्रसारणम्। `हलः'इति दीर्घस्तु न भवति, `ढ्रलोपे'इति सूत्रादण इत्यनुवृत्तेः `त्रेस्तृ च'इति नोक्तं, प्रत्ययो मा विज्ञायीति।

Satishji's सूत्र-सूचिः

TBD.