TBD.
शतादयः संख्याशब्दाः लौकिका गृह्यन्ते। शतादिभ्यः मासार्धमाससंवत्सरशदेभ्यश्च परस्य डटो नित्यं तमडागमः भवति। मासादयः संख्याशब्दा न भवन्ति, तेभ्यो ऽस्मादेव ज्ञापकात् डट् प्रत्ययो विज्ञायते। शतस्य पूरणः शततमः। सहस्रतमः। लक्षतमः। मासस्य पूरनः मासतमो दिवसः। अर्धमासतमः। संवत्सरतमः। षष्ट्यादेश्च असङ्ख्यादेः 5-2-58 इति वक्ष्यमाणेन सिद्धे शतादिग्रहणं सङ्ख्याद्यर्थम्। एकशततमः। द्विशततमः।
TBD.
–
1833 नित्यं शतादि। शतादिभ्यो मासात् अर्धमासात्संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः। ननु `षष्ठ\उfffदादेश्चे'त्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह–एकशततम इति। `असङ्ख्यादे'रिति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः। ननु मासार्धमाससंवत्सरशब्दानां सङ्ख्यावाचित्वाऽभावात्तेभ्यो डट एवाऽप्रसक्तेस्तस्य कथं तदड्विधिरित्यत आह–मासादेरिति। मासतम इति। मासस्य पूरणः- अर्धमासादिरवयवः। अर्धमासतम इति। अर्धमासस्य पूरणस्तिथ्यादिरवयवः। संवत्सरतम इति। संवत्सरस्य पूरणो मासादिरवयवः।
–
TBD.